श्री त्रिदंडी देव सेवाश्रम संस्थान, सिलवासा की ओर से सभी मित्रों, शुभचिन्तकों एवं सभी वैष्णवों को दीपावली की हार्दिक शुभकामनायें । आप सभी पर माँ लक्ष्मी एवं भगवान नारायण की कृपा सदैव बनी रहे ।। नारायण नारायण ।।

अथ श्री मधुराष्टकं रचना : श्री वल्लभाचार्य




अधरं मधुरं वदनं मधुरंनयनं मधुरं हसितं मधुरम् ।
हृदयं मधुरं गमनं मधुरंमधुराधिपतेरखिलं मधुरम् ॥ १ ॥

वचनं मधुरं चरितं मधुरंवसनं मधुरं वलितं मधुरम् ।
चलितं मधुरं भ्रमितं मधुरंमधुराधिपतेरखिलं मधुरम् ॥ २ ॥

वेणु-र्मधुरो रेणु-र्मधुरःपाणि-र्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरंमधुराधिपतेरखिलं मधुरम् ॥ ३ ॥

गीतं मधुरं पीतं मधुरंभुक्तं मधुरं सुप्तं मधुरम् ।
रूपं मधुरं तिलकं मधुरंमधुराधिपतेरखिलं मधुरम् ॥ ४ ॥

करणं मधुरं तरणं मधुरंहरणं मधुरं स्मरणं मधुरम् ।
वमितं मधुरं शमितं मधुरंमधुराधिपतेरखिलं मधुरम् ॥ ५ ॥

गुंजा मधुरा माला मधुरायमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरंमधुराधिपतेरखिलं मधुरम् ॥ ६ ॥

गोपी मधुरा लीला मधुरायुक्तं मधुरं मुक्तं मधुरम् ।
दृष्टं मधुरं शिष्टं मधुरंमधुराधिपतेरखिलं मधुरम् ॥ ७ ॥

गोपा मधुरा गावो मधुरायष्टि र्मधुरा सृष्टि र्मधुरा ।
दलितं मधुरं फलितं मधुरंमधुराधिपतेरखिलं मधुरम् ॥ ८ ॥॥ 

इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं संपूर्णम् ॥

Photo Gallery