अथ आर्तिहरस्तोत्रम् ।।

श्री शंभो मयि करुणाशिशिरां दृष्टिं दिशन् सुधावृष्टिम्।
सन्तापमपाकुरुमे मन्तापरमेश तव दयायाः स्याम् ॥ १॥

अवसीदामि यदार्तिभिरनुगुणमिदमोकसोंहसां खलु मे।
तव सन्नवसीदामि यदन्तकशासन नतत्तवानुगुणम् ॥ २॥

देव स्मरंति तव येतेषां स्मरतोऽपि नार्तिरितिकीर्तिम्।
कलयसि शिव पाहीतिक्रन्दन् सीदाम्यहं किमुचितमिदम् ॥ ३॥

आदिश्याघकृतौ मामन्तर्यामिन्नसावघात्मेति।
आर्तिषुमज्जयसे मां किंब्रूयां तवकृपैकपात्रमहम् ॥ ४॥

मन्दाग्र्णीरहं तव मयि करुणां घटयितुं विबोनालम्।
आकृष्टुं तान्तु बलादलमिह मद्दैन्यमिति समाश्वसिति ॥ ५॥

त्वं सर्वज्ञोऽहं पुनरज्ञोऽनीशोहमीश्वरत्वमसि।
त्वं मयि दोषान् गणयसि किं कथये तुदति किं दया नत्वाम् ॥ ६॥

आश्रितमार्ततरं मामुपेक्षसे किमिति शिव न किं दयसे।
श्रितगोप्ता दीनार्तिहृदिति खलु शंसंति जगति सन्तस्त्वाम् ॥ ७॥

प्रहराहरेतिवादी फणितमदाख्य इति पालितो भवता।
शिव पाहीति वदोऽहं शृतो न किं क्वां कथं न पाल्यस्ते ॥ ८॥

शरणं व्रज शिवमार्तीस्सतव हरेदिति सतां गिराऽहम् त्वाम्।
शरणं गतोऽस्मि पालय खलमपि तेष्वीश पक्षपातान्माम् ॥ ९॥

।। इति श्री श्रीधरवेंकटेशार्यकृतिषु आर्तिहरस्तोत्रं संपूर्णम् ।।

Leave a Reply

Your email address will not be published. Required fields are marked *