अथ श्रीकृष्ण कवचम् अथवा त्रैलोक्यविजयं नाम कवचम् ।। Shri Krishna Kavacham Athava Trailokya Vijaya Kavacham.

0
46
अथ श्रीकृष्ण कवचम् अथवा त्रैलोक्यविजयं नाम कवचम् ।।


नारद उवाच ॥
भगवञ्छ्रोतुमिच्छामि किं मन्त्रं भगवान्हरः ।
कृपया-ऽदात् परशुरामाय स्तोत्रं च वर्म च ॥ १॥

कोवाऽस्य मन्त्रस्याराध्यः किं फलं कवचस्य च ।
स्तवनस्य फलं किं वा तद्भवान्वक्तुमर्हसि ॥ २॥

नारायण उवाच ॥
मन्त्राराध्यो हि भगवान् परिपूर्णतमः स्वयम् ।
गोलोकनाथः श्रीकृष्णो गोप-गोपीश्वरः प्रभुः ॥ ३॥

त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ।
स्तवराजं महापुण्यं भूतियोग-समुद्भवम् ॥ ४॥

मन्त्रं कल्पतरुं नाम सर्वकाम-फलप्रदम् ।
ददौ परशुरामाय रत्नपर्वत-सन्निधौ ॥ ५॥

स्वयंप्रभा-नदीतीरे पारिजात-वनान्तरे ।
आश्रमे लोकदेवस्य माधवस्य च सन्निधौ ॥ ६॥ 

 
महादेव उवाच ॥ 
वत्सागच्छ महाभाग भृगुवंश-समुद्भव ।
पुत्राधिकोऽसि प्रेम्णा मे कवचग्रहणं कुरु ॥ ७॥

शृणु राम प्रवक्ष्यामि ब्रह्माण्डे परमाद्भुतम् ।
त्रैलोक्यविजयं नाम श्रीकृष्णस्य जयावहम् ॥ ८॥

श्रीकृष्णेन पुरा दत्तं गोलोके राधिकाश्रमे ।
रासमण्डल-मध्ये च मह्यं वृन्दावने वने ॥ ९॥

अतिगुह्यतरं तत्त्वं सर्व-मन्त्रौघविग्रहम् ।
पुण्यात्पुण्यतरं चैव परं स्नेहाद्वदामि ते ॥ १०॥

यद्धृत्वा पठनाद्देवी मूलप्रकृतिरीश्वरी ।
शुंभं निशुंभं महिषं रक्तबीजं जघान ह ॥ ११॥

यद्धृत्वाऽहं च जगतां संहर्ता सर्वतत्ववित् ।
अवध्यं त्रिपुरं पूर्वं दुरन्तमपि लीलया ॥ १२॥

यद्धृत्वा पठनाद्ब्रह्मा ससृजे सृष्टिमुत्तमाम् ।
यद्धृत्वा भगवाञ्छेषो विधत्ते विश्वमेव च ॥ १३॥

यद्धृत्वा कूर्मराजश्च शेषं धत्ते हि लीलया ।
यद्धृत्वा भगवान्वायुः विश्वाधारो विभुः स्वयम् ॥ १४॥

यद्धृत्वा वरुणः सिद्धः कुबेरश्च धनेश्वरः ।
यद्धृत्वा पठनादिन्द्रो देवानामधिपः स्वयम् ॥ १५॥

यद्धृत्वा भाति भुवने तेजोराशिः स्वयं रविः ।
यद्धृत्वा पठनाच्चन्द्रो महाबल-पराक्रमः ॥ १६॥

अगस्त्यः सागरान्सप्त यद्धृत्वा पठनात्पपौ ।
चकार तेजसा जीर्णं दैत्यं वातापिसंज्ञकम् ॥ १७॥

यद्धृत्वा पठनाद्देवी सर्वाधारा वसुन्धरा ।
यद्धृत्वा पठनात्पूता गङ्गा भुवनपावनी ॥ १८॥

यद्धृत्वा जगतां साक्षी धर्मो धर्मभृतां वरः ।
सर्व-विद्याधिदेवी सा यच्च धृत्वा सरस्वती ॥ १९॥

यद्धृत्वा जगतां लक्ष्मी-रन्नदात्री परात्परा ।
यद्धृत्वा पठनाद्वेदान् सावित्री सा सुषाव च ॥ २०॥

वेदाश्च धर्मवक्तारो यद्धृत्वा पठनाद् भृगो ।
यद्धृत्वा पठनाच्छुद्ध-स्तेजस्वी हव्यवाहनः ।
सनत्कुमारो भगवान्यद्धृत्वा ज्ञानिनां वरः ॥ २१॥

दातव्यं कृष्ण-भक्ताय साधवे च महात्मने ।
शठाय परशिष्याय दत्वा मृत्युमवाप्नुयात् ॥ २२॥

त्रैलोक्यविजयस्यास्य कवचस्य प्रजापतिः ।
ॠषिश्छन्दश्च गायत्री देवो रासेश्वरः स्वयम् ॥ २३॥

त्रैलोक्यविजय-प्राप्तौ विनियोगः प्रकीर्तितः ।
परात्परं च कवचं त्रिषु लोकेषु दुर्लभम् ॥ २४॥

प्रणवो मे शिरः पातु श्रीकृष्णाय नमः सदा ।
पायात्कपालं कृष्णाय स्वाहा पञ्चाक्षरः स्मृतः ॥ २५॥

कृष्णेति पातु नेत्रे च कृष्ण स्वाहेति तारकम् ।
हरये नम इत्येवं भ्रूलतां पातु मे सदा ॥ २६॥

ॐ गोविन्दाय स्वाहेति नासिकां पातु सन्ततम् ।
गोपालाय नमो गण्डौ पातु मे सर्वतः सदा ॥ २७॥

ॐ नमो गोपाङ्गनेशाय कर्णौ पातु सदा मम ।
ॐ कृष्णाय नमः शश्वत्पातु मेऽधर-युग्मकम् ॥ २८॥

ॐ गोविन्दाय स्वाहेति दन्तौघं मे सदाऽवतु ।
पातु कृष्णाय दन्ताधो दन्तोर्ध्वं क्लीं सदाऽवतु ॥ २९॥

ॐ श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा ।
रासेश्वराय स्वाहेति तालुकं पातु मे सदा ॥ ३०॥

राधिकेशाय स्वाहेति कण्ठं पातु सदा मम ।
नमो गोपाङ्गनेशाय वक्षः पातु सदा मम ॥ ३१॥

ॐ गोपेशाय स्वाहेति स्कन्धं पातु सदा मम ।
नमः किशोर-वेषाय स्वाहा पृष्टं सदाऽवतु ॥ ३२॥

उदरं पातु मे नित्यं मुकुन्दाय नमः सदा ।
ॐ ह्रीं क्लीं कृष्णाय स्वाहेति करौ पातु सदा मम ॥ ३३॥

ॐ विष्णवे नमो  बाहुयुग्मं पातु सदा मम ।
ॐ ह्रीं भगवते स्वाहा नखं पातु मे सदा ॥ ३४॥

ॐ नमो नारायणायेति नखरन्ध्रं सदाऽवतु ।
ॐ ह्रीं ह्रीं पद्मनाभाय नाभिं पातु सदा मम ॥ ३५॥

ॐ सर्वेशाय स्वाहेति कङ्कालं पातु मे सदा ।
ॐ गोपीरमणाय स्वाह नितम्बं पातु मे सदा ॥ ३६॥

ॐ गोपीरमणनाथाय पादौ पातु सदा मम ।
ॐ ह्रीं क्लीं रसिकेशाय स्वाहा सर्वं सदाऽवतु।३७ ॥
ॐ केशवाय स्वाहेति मम केशान्सदाऽवतु ।
नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदाऽवतु ॥ ३८॥

ॐ माधवाय स्वाहेति मे लोमानि सदाऽवतु ।
ॐ ह्रीं श्रीं रसिकेशाय स्वाहा सर्वं सदाऽवतु ॥ ३९॥

परिपूर्णतमः कृष्णः प्राच्यां मां सर्वदाऽवतु ।
स्वयं गोलोकनाथो मामाग्नेयां दिशि रक्षतु ॥ ४०॥

पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदाऽवतु ।
नैरॄत्यां पातु मां कृष्णः पश्चिमे पातु मां हरिः ॥ ४१॥

गोविन्दः पातु मां शश्वद्वायव्यां दिशि नित्यशः ।
उत्तरे मां सदा पातु रसिकानां शिरोमणिः ॥ ४२॥

ऐशान्यां मां सदा पातु वृन्दावन-विहारकृत् ।
वृन्दावनी-प्राणनाथः पातु मामूर्ध्वदेशतः ॥ ४३॥

सदैव माधवः पातु बलिहारी महाबलः ।
जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा ॥ ४४॥

स्वप्ने जागरणे शश्वत्पातु मां माधवः सदा ।
सर्वान्तरात्मा  निर्लिप्तः पातु मां सर्वतो विभुः ॥ ४५॥

इति ते कथितं वत्स सर्वमन्त्रौघ-विग्रहम् ।
त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥ ४६॥

मया श्रुतं कृष्ण-वक्त्रात् प्रवक्तव्यं न कस्यचित् ।
गुरुमभ्यर्च्य विधिवत् कवचं धारयेत् यः ॥ ४७॥

कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ।
स च भक्तो वसेद्यत्र लक्ष्मीर्वाणी वसेत्ततः ॥ ४८॥

यदि स्यात्सिद्धकवचो जीवन्मुक्तो भवेत्तु सः ।
निश्चितं कोटिवर्षाणां पूजायाः फलमाप्नुयात् ॥ ४९॥

राजसूय-सहस्राणि वाजपेय-शतानि च ।
अश्वमेधायुतान्येव नरमेधायुतानि च ॥ ५०॥

महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ।
त्रैलोक्यविजयस्यास्य कलां नार्हन्ति षोडशीम् ॥ ५१॥

व्रतोपवास-नियमं स्वाध्यायाध्ययनं तपः ।
स्नानं च सर्वतीर्थेषु नास्यार्हन्ति कलामपि ॥ ५२॥

सिद्धत्वममरत्वं च दासत्वं श्रीहरेरपि ।
यदि स्यात्सिद्धकवचः सर्वं प्राप्नोति निश्चितम् ॥ ५३॥

स भवेत्सिद्धकवचो दशलक्षं जपेत्तु यः ।
यो भवेत्सिद्धकवचः सर्वज्ञः स भवेद्ध्रुवम् ॥ ५४॥

इदं कवच-मज्ञात्वा भजेत्कृष्णं सुमन्दधीः ।
कोटिकल्पं प्रजप्तोऽपि न मन्त्रः सिद्धि-दायकः ॥ ५५॥

गृहीत्वा कवचं वत्स महीं निःक्षत्रियं कुरु ।
त्रिस्सप्तकृत्वो निश्शंकः सदानन्दो हि लीलया ॥ ५६॥

राज्यं देयं शिरो देयं प्रणा देयाश्च पुत्रक ।
एवंभूतं च कवचं न देयं प्राणसंकटे ॥ ५७॥

॥ इति श्रीब्रह्मवैवर्ते महापुराणे तृतीये गणपतिखण्डे/नारद-नारायणसंवादे परशुरामाय श्रीकृष्णकवच-प्रदानं नाम एकत्रिंशत्तमोऽध्ययः ॥

LEAVE A REPLY

Please enter your comment!
Please enter your name here