अथ श्रीमदानन्दरामायणांतर्गत श्री भरतकवचम् ।। Shri Bharata Kavacham.

0
529
Shri Raghav Ashtakam
Shri Raghav Ashtakam
अथ श्रीमदानन्दरामायणांतर्गत श्री भरतकवचम् ।। Shri Bharata Kavacham.
अगस्तिरुवाच-

अथः परं भरतस्य कवचं ते वदाम्यहं ।
सर्वपापहरं पुण्यं सदा श्रीरामभक्तिदं ॥१॥

कैकेयी तनयं सदा रघुवर न्यस्केक्षणं श्यामलं
सप्त द्वीपपतेर् विदेह तनया कान्तस्य वाक्ये रतं  ।
श्रीसीताधव सव्यपार्श्व निकटे स्थित्वा वरं चामरं
धृत्वा दक्षिण सत्करेण भरतं तं वीजयन्तं भजे  ॥२॥

अस्य श्री भरतकवच मन्त्रस्य अगस्त्य ऋषिः ।
श्री भरतो देवता ।
अनुष्टुप् छन्दः ।
शङ्ख इति बीजं ।
कैकेयी नन्दनः इति शक्तिः ।
भरतखण्डेश्वर इति कीलकं ।
रामानुज इत्यस्त्रं ।
सप्तद्वीपेश्वर दास इति कवचं ।
रामांशज इति मन्त्रः ।
श्रीभरत प्रीत्यर्थं  सकलमनोरथ सिद्ध्यर्थं जपे विनियोगः ॥

अथ अङ्गुळी न्यासः ॥


ॐ भरताय अङ्गुष्ठाभ्यां नमः ।
ॐ शङ्खाय तर्जनीभ्यां नमः ।
ॐ कैकेयीनन्दनाय मध्यमाभ्यां नमः ।
ॐ भरतखण्डेश्वराय अनामिकाभ्यां नमः ।
ॐ रामानुज कनिष्ठिकाभ्यां नमः ।
ॐ सप्त द्वीपेश्वर दासाय करतल करपृष्ठाभ्यां नमः ॥

हृदयादिन्यासः ॥


ॐ भरताय हृदयाय नमः ।
ॐ शङ्खाय शिरसे स्वाहा ।
ॐ कैकेयीनन्दनाय शिकायै वषट् ।
ॐ भरतखण्डेश्वराय कवचाय हुं ।
ॐ रामानुजाय नेत्रत्रयाय वौषट् ।
ॐ सप्त द्वीपेश्वर दासाय अस्त्राय फट् ।
ॐ रामांशजेति दिग्बन्धः ॥

अथ ध्यानम् ॥


रामचन्द्र सव्यपार्श्वे स्थितं केकयजा सुतं ।
रामाय चामरेणैव वीजयन्तं मनोरमं ॥१॥

रत्नकुण्डल केयूर कङ्कणादि सुभूषितं ।
पीताम्बर परिधानं वनमाला विराजितं ॥२॥

माण्डवी धौत चरणं रशना नूपुरान्वितं ।
नीलोत्पल दलश्यामं द्विजराज समाननं ॥३॥

आजानुबाहुं भरत खण्डस्य प्रतिपालकं ।
रामानुजं स्मितास्यंच शत्रुघ्न परिवन्दितं ॥४॥

रामन्यस्तेक्षणं सौम्यं विद्युत् पुञ्च समप्रभं ।
रामभक्तं महावीरं वन्दे तं भरतं शुभं ॥५॥

एवं ध्यात्वा तु भरतं रामपादेक्षणं हृदि ।
कवचं पठनीयं हि भरतस्येद मुत्तमं  ॥६॥

कवच प्रारंभः ॥


ॐ । पूर्वतो भरतः पातु दक्षिणे कैकयीसुतः ।
नृपात्मजः प्रतीच्यां हि पातूदीश्यां रघूत्तमः ॥१॥

अथः पातु श्यामलाङ्गः चोर्ध्वं दशरथात्मजः ।
मध्ये भारतवर्षेशः सर्वतः सूर्यवंशजः ॥ २॥

शिरस् दक्षपिता पातु भालं पातु हरिप्रियः ।
भृवोर् मध्यम जनकजा वाक्यैक तत्परोवतु ॥३॥

पातु जनक जामाता मम नेत्रे सदात्र हि ।
कपोले माण्डवीकान्तः कर्णमूले स्मिताननः ॥४॥

नासाग्रं मे सदा पातु कैकेयी तोषवर्धनः ।
उदाराङ्गो मुखे पातु वाणीं पातु जटाधरः ॥५॥

पातु पुष्करतातो मे जिह्वां दन्ताण् प्रभामयः ।
चिबुकं वल्कलधरः कण्ठे पातु वराननः ॥६॥

स्कन्धौ पातु जिताराति भुजौ शत्रुघ्न वन्दितः ।
करौ कवचधारीच नखान् खड्गधरोवतु ॥७॥

कुक्षौ रामानुजः पातु वक्षः श्री रामवल्लभः ।
पार्श्वे राघव पार्श्वस्थः पातु पृष्ठं सुभाषणः ॥८॥

जठरं च धनुर्धारी नाभिं शरकरोवतु ।
कटिं पद्मेक्षणः पातु गुह्यं रामैकमानसः ॥९॥

राममित्रः पातु लिङ्गमूरू श्रीरामसेवकः ।
नन्दिग्राम स्थितः पातु जानुनी मम सर्वदा ॥१०॥

श्री रामपातुकाधारी पातु जङ्घे सदा मम ।
गुल्फौ श्रीराम बन्धुश्च पादौ पातु सुरार्चितः ॥११॥

रामाज्ञापालकः पातु ममाङ्गान्यत्र सर्वदा ।
मम पादाङ्गुळीः पातु रघुवंश सुभूषणः ॥१२॥

रोमाणि पातु मे रम्यः पातु रात्रौ सुधीर् मम ।
तूणीरधारी दिवसे दिक् पातु मम सर्वदा ॥१३॥

सर्वकालेषु मां पातु पाञ्चजन्यः सदा भुवि ।
एवं श्रीभरस्येदं सुतीक्ष्ण कवचं शुभं ॥१४॥

मया प्रोक्तं तवाग्रे हि महामङ्गल कारकं ।
स्तोत्राणा मुत्तमं स्तोत्रमिदं ज्ञेयं सुपुण्यदं ॥१५॥

पठनीयं सदा भक्त्या रामचन्द्रस्य हर्षदं ।
पठित्वा भरतस्येदं कवचं  रघुनन्दनः ॥१६॥

यथा याति परं तोषं तथा स्वकवचेनन ।
तस्मादेतत् सदा जप्यं कवचाना मनुत्तमं ॥१७॥

अस्यात्र पठनान् मर्त्यः सर्वान् कामानवाप्नुयात् ।
विद्याकामो लभेत्विद्यां पुत्रकामो लभेत् सुतं ॥१८॥

पत्नीकामो लभेत् पत्नीं धनार्थी धन माप्नुयात् ।
यद्यन् मनोभि लषितं तत्तत् कवचपाठतः ॥१९॥

लभ्यते मानवैरत्र सत्यं सत्यं वदाम्यहं ।
तस्मात् सदा जपनीयं रामोपासक मानवैः ॥२०॥

इति श्री शतकोटिरामचरितांतर्गत श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे श्री भरतकवचं सम्पूर्णं ॥

Previous articleमृत्यु के उस पार की रहस्यमयी दुनिया।।
Next articleअथ श्री भरत अग्रज अष्टकम् ।। Bharat Agraja Ashtakam.
भागवत प्रवक्ता- स्वामी धनञ्जय जी महाराज "श्रीवैष्णव" परम्परा को परम्परागत और निःस्वार्थ भाव से निरन्तर विस्तारित करने में लगे हैं। श्रीवेंकटेश स्वामी मन्दिर, दादरा एवं नगर हवेली (यूनियन टेरेटरी) सिलवासा में स्थायी रूप से रहते हैं। वैष्णव धर्म के विस्तारार्थ "स्वामी धनञ्जय प्रपन्न रामानुज वैष्णव दास" के श्रीमुख से श्रीमद्भागवत जी की कथा का श्रवण करने हेतु संपर्क कर सकते हैं।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here