नारायणीयम् । भाग – 70. सुदर्शन की मुक्ति ।। SANSTHANAM.

0
41

नारायणीयम् । भाग – 70. सुदर्शन की मुक्ति ।। SANSTHANAM.

इति त्वयि रसाकुलं रमितवल्लभे वल्लवाः
कदापि पुनरम्बिकाकमितुरम्बिकाकानने ।
समेत्य भवता समं निशि निषेव्य दिव्योत्सवं
सुखं सुषुवुरग्रसीद्‍व्रजपमुग्रनागस्तदा ॥ ७०-१॥

समुन्मुखमथोन्मुकैरभिहतेऽपि तस्मिन्बला-
दमुञ्चति भवत्पदे न्यपति पाहि पाहीति तैः ।
तदा खलु पदा भवान्समुपगम्य पस्पर्श तं
बभौ स च निजां तनुं समुपसाद्य वैद्याधरीम् ॥ ७०-२॥

सुदर्शनधर प्रभो ननु सुदर्शनाख्योऽस्म्यहं
मुनीन्क्वचिदपाहसं त इह मां व्यधुर्वाहसम् ।
भवत्पदसमर्पणादमलतां गतोऽस्मीत्यसौ
स्तुवन्निजपदं ययौ व्रजपदं च गोपा मुदा ॥ ७०-३॥

कदापि खलु सीरिणा विहरति त्वयि स्त्रीजनै-
र्जहार्धनदानुगः स किल शङ्खचूडोऽबलाः ।
अतिद्रुतमनुद्रुतस्तमथ मुक्तनारीजनं
रुरोजिथ शिरोमणिं हलभृते च तस्याददाः ॥ ७०-४॥

दिनेषु च सुहृज्जनैः सह वनेषु लीलापरं
मनोभवमनोहरं रसितवेणुनादामृतम् ।
भवन्तममरीदृशाममृतपारणादायिनं
विचिन्त्य किमु नालपन् विरहतापिता गोपिकाः ॥ ७०-५॥

भोजराजभृतकस्त्वथ कश्चित्कष्टदुष्टपथदृष्टिररिष्टः ।
निष्ठुराकृतिरपष्ठुनिनादस्तिष्ठते स्म भवते वृषरूपी ॥ ७०-६॥

शाक्वरोऽथ जगतीधृतिहारी मूर्तिमेष बृहतीं प्रदधानः ।
पङ्क्तिमाशु परिघूर्ण्य पशूनां छन्दसां निधिमवाप भवन्तम् ॥ ७०-७॥

तुङ्गशृङ्गमुखमाश्वभियन्तं ससङ्गृहय्य रभसादभियं तम् ।
भद्ररूपमपि दैत्यमभद्रं मर्दयन्नमदयः सुरलोकम् ॥ ७०-८॥

चित्रमद्य भगवन् वृषघातात्सुस्थिराजनि वृषस्थितिरुर्व्याम् ।
वर्धते च वृषचेतसि भूयान्मोद इत्यभिनुतोऽसि सुरस्त्वम् ॥ ७०-९॥

औक्षकाणि परिधावत दूरं वीक्ष्यतामयमिहोक्षविभेदी ।
इत्थमात्तहसितैः सह गोपैर्गेहगस्त्वमव वातपुरेश ॥ ७०-१०॥

LEAVE A REPLY

Please enter your comment!
Please enter your name here