नारायणीयम् । भाग – 87. भगवान नारायण ।। SANSTHANAM.

0
68

नारायणीयम् । भाग – 87. भगवान नारायण ।। SANSTHANAM.

कुचेलनामा भवतः सतीर्थ्यतां गतः स सान्दीपनिमन्दिरे द्विजः ।
त्वदेकरागेण धनादिनिःस्पृहो दिनानि निन्ये प्रशमी गृहाश्रमी ॥ ८७-१॥

समानशीलाऽपि तदीयवल्लभा तथैव नो चित्तजयं समेयुषी ।
कदाचिदूचे बत वृत्तिलब्धये रमापतिः किं न सखा निषेव्यते ॥ ८७-२॥

इतीरितोऽयं प्रियया क्षुधार्तया जुगुप्समानोऽपि धने मदावहे ।
तदा त्वदालोकनकौतुकाद्ययौ वहन्पटान्ते पृथुकानुपायनम् ॥ ८७-३॥

गतोऽयमाश्चर्यमयीं भवत्पूरीं गृहेषु शैब्याभवनं समेयिवान् ।
प्रविश्य वैकुण्ठमिवाप निर्वृतिं तवातिसम्भावनया तु किं पुनः ॥ ८७-४॥

प्रपूजितं तं प्रियया च वीजितं करे गृहीत्वाऽकथयः पुरा कृतम् ।
यदिन्धनार्थं गुरुदारचोदितैरपर्तुवर्षं तदमर्षि कानने ॥ ८७-५॥

त्रपाजुषोऽस्मात्पृथुकं बलादथ प्रगृह्य मुष्टौ सकृदाशिते त्वया ।
कृतं कृतं नन्वियतेति सम्भ्रमाद्रमा किलोपेत्य करं रुरोध ते ॥ ८७-६॥

भक्तेषु भक्तेन स मानितस्त्वया पुरीं वसन्नेकनिशां महासुखम् ।
बतापरेद्युर्द्रविणं विना ययौ विचित्ररूपस्तव खल्वनुग्रहः ॥ ८७-७॥

यदि ह्ययचिष्यमदास्यदच्युतो वदामि भार्यां किमिति व्रजन्नसौ ।
त्वदुक्तिलीलास्मितमग्नधीः पुनः क्रमादपश्यन्मणिदीप्रमालयम् ॥ ८७-८॥

किं मार्गविभ्रंश इति भ्रमन्क्षणं गृहं प्रविष्टः स ददर्श वल्लभाम् ।
सखीपरीतां मणिहेमभूषितां बुबोध च त्वत्करुणां महाद्भुताम् ॥ ८७-९॥

स रत्नशालासु वसन्नपि स्वयं समुन्नमद्भक्तिभरोऽमृतं ययौ ।
त्वमेवमापूरितभक्तवाञ्छितो मरुत्पुराधीश हरस्व मे गदान् ॥ ८७-१०॥

LEAVE A REPLY

Please enter your comment!
Please enter your name here