नारायणीयम् । भाग – 89. भगवान नारायण ।। SANSTHANAM.

0
75

नारायणीयम् । भाग – 89. भगवान नारायण ।। SANSTHANAM.

रमाजाने जाने यदिह तव भक्तेषु विभवो
न सम्पद्यः सद्यस्तदिह मदकृत्त्वादशमिनाम् ।
प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलं
प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा ॥ ८९-१॥

सद्यःप्रसादरुषितान्विधिशङ्करादीन्
कचिद्विभो निजगुणानुगुणं भजन्तः ।
भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्या
स्पष्टं वृकासर उदाहरणं किलास्मिन् ॥ ८९-२॥

शकुनिजः स हि नारदमेकदा त्वरिततोषमपृच्छदधीश्वरम् ।
स च दिदेश गिरीशमुपासितुं न तु भवन्तमबन्धुमसाधुषु ॥ ८९-३॥

तपस्तप्त्व् घोरं स खलु कुपितः सप्तमदिने
शिरश्छित्त्वा सद्यः पुरहरमुपस्थाप्य पुरतः ।
अतिक्षुद्रं रौद्रं शिरसि करदानेन निधनं
जगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधीः ॥ ८९-४॥

मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रं
दैत्याद्भीत्या स्म देवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः ।
तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वं
दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय ॥ ८९-५॥

भद्रं ते शाकुनेय भ्रमसि किमधुना त्वं पिशाचस्य वाचा
सन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्ग मौलौ ।
इत्थं त्वद्वाक्यमूढः शिरसि कृतकरः सोऽपतच्छिन्नपातं
भ्रंशो ह्येवं परोपासितुरपि च गतिः शूलिनोऽपि त्वमेव ॥ ८९-६॥

भृगुं किल सरस्वतीनिकटवासिनस्तापसा-
स्त्रिमुर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् ।
अयं पुनरनादरादुदितरुद्धरोषे विधौ
हरेऽपि च जिहिंसिषौ गिरिजया धृते त्वामगात् ॥ ८९-७॥

सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां
विप्रे विनिघ्नति पदेन मुदोत्थितस्त्वम् ।
सर्वं क्षमस्व मुनिवर्य भवेत्सदा मे
त्वत्पादचिह्नमिह भूषणमित्यवादीः ॥ ८९-८॥

निश्चित्य ते च सुदृढं त्वयि बद्धभावाः
सारस्वता मुनिवरा दधिरे विमोक्षम् ।
त्वामेवमच्युत पुनश्च्युतिदोषहीनं
सत्त्वोच्चयैकतनुमेव वयं भजामः ॥ ८९-९॥

जगत्सृष्ट्यादौ त्वां निगमनिवहैर्वन्दिभिरिव
स्तुतं विष्णो सच्चित्परमरसनिर्द्वैतवपुषम् ।
परात्मानं भूमन् पशुपविनताभाग्यनिवहं
परीतपश्रान्त्यै पवनपुरवासिन् परिभजे ॥ ८९-१०॥

LEAVE A REPLY

Please enter your comment!
Please enter your name here