नारायणीयम् । भाग – 96. भगवान नारायण ।। SANSTHANAM.

0
104

नारायणीयम् । भाग – 96. भगवान नारायण ।। SANSTHANAM.

त्रैगुण्याद्भिन्नरूपं भवति हि भुवने हीनमध्योत्तमं यत्-
ज्ञानं श्रद्धा च कर्ता वसतिरपि सुखं कर्म चाहारभेदाः ।
त्वत्क्षेत्रत्वन्निषेवादि तु यदिह पुनस्त्वत्परं तत्तु सर्वं
प्राहुर्नैर्गुण्यनिष्ठं तदनुभजनतो मङ्क्षु सिद्धो भवेयम् ॥ ९७-१॥

त्वय्येव न्यस्तचित्तः सुखमयि विचरन्सर्वचेष्टास्त्वदर्थं
त्वद्भक्तैस्सेव्यमानानपि चरितचरानाश्रयन् पुण्ण्यदेशान् ।
दस्यौ विप्रे मृगादिष्वपि च सममतिर्मुच्यमानावमान-
स्पर्धासूयादिदोषः सततमखिलभूतेषु सम्पूजये त्वाम् ॥ ९७-२॥

त्वद्भावो यावदेषु स्फुरति न विशदं तावदेवं ह्युपास्तिं
कुर्वन्नैकात्म्यबोधे झटिति विकसति त्वन्मयोऽहं चरेयम् ।
त्वद्धर्मस्यास्य तावत्किमपि न भगवन् प्रस्तुतस्य प्रणाश-
स्तस्मात्सर्वात्मनैव प्रदिश मम विभो भक्तिमार्गं मनोझम् ॥ ९७-३॥

तञ्चैनं भक्तियोगं द्रढयितुमयि मे साध्यमारोग्यमायु-
र्दिष्ट्या तत्रापि सेव्यं तव चरणमहो भेषजायेव दुग्धम् ।
मार्कण्डेयो हि पूर्वं गणकनिगदितद्वादशाब्दायुरुच्चैः
सेवित्वा वत्सरं त्वां तव भटनिवहैर्द्रावयामास मृत्युम् ॥ ९७-४॥

LEAVE A REPLY

Please enter your comment!
Please enter your name here