नारायणीयम् । भाग – 97. भगवान नारायण ।। SANSTHANAM.

0
74

नारायणीयम् । भाग – 97. भगवान नारायण ।। SANSTHANAM.

मार्कण्डेयश्चिरायुस्स खलु पुनरपि त्वत्परः पुष्पभद्रा-
तीरे निन्ये तपस्यन्नतुलसुखरतिः षट् तु मन्वन्तराणि ।
देवेन्द्रस्सप्तमस्तं सुरयुवतिमरुन्मन्मथैर्मोहयिष्यन्
योगोष्मप्लुष्यमाणैर्न तु पुनरशकत्त्वज्जनं निर्जयेत् कः ॥ ९७-५॥

प्रीत्या नारायणाख्यस्त्वमथ नरसखः प्राप्तवानस्य पार्श्वं
तुष्ट्या तोष्टूयमानः स तु विविधवरैर्लोभितो नानुमेने ।
द्रष्टुं मायां त्वदीयां किल पुनरवृणोद्भक्तितृप्तान्तरात्मा
मायादुःखानभिज्ञस्तदपि मृगयते नूनमाश्चर्यहेतोः ॥ ९७-६॥

याते त्वय्याशु वाताकुलजलदगलत्तोयपूर्णातिघूर्ण-
त्सप्तार्णोराशि मग्ने जगति स तु जले सम्भ्रमन्वर्षकोटीः ।
दीनः प्रैक्षिष्ट दूरे वटदलशयनं कञ्चिदाश्चर्यबालं
त्वामेव श्यामलाङ्गं वदनसरसिजन्यस्तपादाङ्गुलीकम् ॥ ९७-७॥

दृष्ट्वा त्वां हृष्टरोमा त्वरितमभिगतः स्प्रष्टुकामो मुनीन्द्रः
श्वासेनान्तर्निविष्टः पुनरिह सकलं दृष्टवान् विष्टपौघम् ।
भूयोऽपि श्वासवातैर्बहिरनुपतितो वीक्षितस्त्वत्कटाक्षै-
र्मोदादाश्लेष्टुकामस्त्वयि पिहिततनौ स्वाश्रमे प्राग्वदासीत् ॥ ९७-८॥

गौर्या सार्धं तदग्रे पुरभिदथ गतस्त्वत्प्रियप्रेक्षणार्थी
सिद्धानेवास्य दत्त्वा स्वयमयमजरामृत्युतादीन् गतोऽभूत् ।
एवं त्वत्सेवयैव स्मररिपुरपि स प्रीयते येन तस्मा-
न्मूर्तित्रय्यात्मकस्त्वं ननु सकलनियन्तेति सुव्यक्तमासीत् ॥ ९७-९॥

त्र्यंशेऽस्मिन्सत्यलोके विधिहरिपुरभिन्मन्दिराण्यूर्ध्वमूर्ध्वं
तेभ्योऽप्यूर्ध्वं तु मायाविकृतिविरहितो भाति वैकुण्ठलोकः ।
तत्र त्वं कारणाम्भस्यपि पशुपकुले शुद्धसत्त्वैकरूपी
सच्चिद्ब्रह्माद्वयात्मा पवनपुरपते पाहि मां सर्वरोगात् ॥ ९७-१०॥

LEAVE A REPLY

Please enter your comment!
Please enter your name here