नारायणीयम् । भाग – 99. भगवान नारायण ।। SANSTHANAM.

0
95

नारायणीयम् । भाग – 99. भगवान नारायण ।। SANSTHANAM.

विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून्मिमीते
यस्यैवाङ्‍घ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसम्पत् ।
योऽसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां
तद्भक्ता यत्र माद्यन्त्यमृतरसमरन्दस्य यत्र प्रवाहः ॥ ९९-१॥

आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूते-
र्भक्तात्मा विष्णवे यः प्रदिशति हविरादीनि यज्ञार्चनादौ ।
कृष्णाद्यं जन्म वा महदिह महतो वर्णयेत्सोऽयमेव
प्रीतः पूर्णो यशोभिस्त्वरितमभिसरेत्प्राप्यमन्ते पदं ते ॥ ९९-२॥

हे स्तोतारः कवीन्द्रास्तमिह खलु यथा चेतयध्वे तथैव
व्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीलाकथाभिः ।
जानन्तश्चास्य नामान्यखिलसुखकराणीति सङ्कीर्तयध्वं
हे विष्णो कीर्तनाद्यैस्तव खलु महतस्तत्त्वबोधं भजेयम् ॥ ९९-३॥

विष्णोः कर्माणि सम्पश्यत मनसि सदा यैः स धर्मानबध्ना/-
द्यानीन्द्रस्यैष भृत्यः प्रियसख इव च व्यातनोत्क्षेमकारी ।
वीक्षन्ते योगसिद्धाः परपदमनिशं यस्य सम्यक्प्रकाशं
विप्रेन्द्रा जागरूकाः कृतबहुनुतयो यच्च निर्भासयन्ते ॥ ९९-४॥

नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं
देव श्रेयांसि विद्वान्प्रतिमुहुरपि ते नाम शंसामि विष्णो ।
तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्या-
प्यूर्ध्वं विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके ॥ ९९-५॥

आपः सृष्ट्यादिजन्याः प्रथममयि विभो गर्भदेशे दधुस्त्वां
यत्र त्वय्येव जीवा जलशयन हरे सङ्गता ऐक्यमापन् ।
तस्याजस्य प्रभो ते विनिहितमभवत्पद्ममेकं हि नाभौ
दिक्पत्रं यत्किलाहुः कनकधरणिभृत् कर्णिकं लोकरूपम् ॥ ९९-६॥

हे लोका विष्णुरेतद्भवनमजनयत्तन्न जानीथ यूयं
युष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपम् ।
नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपैः
प्राणप्रीत्यैकतृप्ताश्चरथ मखपरा हन्त नेच्छा मुकुन्दे ॥ ९९-७॥

मूर्ध्नामक्षणां पदानां वहसि खलु सहस्राणि सम्पूर्य विश्वं
तत्प्रोत्क्रम्यापि तिष्ठन्परिमितविवरे भासि चित्तान्तरेऽपि ।
भूतं भव्यं च सर्वं परपुरुष भवान् किञ्च देहेन्द्रियादि-
ष्वाविष्टोप्युद्गतत्वादमृतसुखरसं चानुभुङ्क्षे त्वमेव ॥ ९९-८॥

यत्तु त्रैलोक्यरूपं दधदपि च ततोनिर्गतानन्तशुद्ध-
ज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावान्किमन्यत् ।
स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पं
भूयिष्ठं सान्द्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ॥ ९९-९॥

अव्यक्तं ते स्वरूपं दुरधिगमतमं तत्तु शुद्धैकसत्त्वं
व्यक्तञ्चाप्येतदेव स्फुटममृतरसाम्भोधिकल्लोलतुल्यम् ।
सर्वोत्कृष्टामभीष्टां तदिह गुणरसेनैव चित्तं हरन्तीं
मूर्तिं ते संश्रयेऽहं पवनपुरपते पाहि मां कृष्ण रोगात् ॥ ९९-१०॥

LEAVE A REPLY

Please enter your comment!
Please enter your name here