पुलकिनि भुजमध्ये पूजयन्तं पुरन्ध्रीं, भुवननयनपुण्यं पूरिताशेषकामम् ।
पुनरपि वृषशैले फुल्लनीलोत्पलाभं, पुरुषमनुभवेयं पुण्डरीकायताक्षम् ॥ १॥
आजानसौहृदमपारकृपामृताब्धिं, अव्याजवत्सलमवेलसुशीलमाद्यम् ।
आनन्दराशिमनुरागमयावरोधं, आराधयामि हरिमञ्जनशैलनाथम् ॥ २॥
आताम्रपादमवदातसुवर्णचेलं, आपीनबाहुशिखरोज्ज्वलशङ्खचक्रम् ।
आविस्स्मिताननममन्ददयाकटाक्षं, आराधयामि हरिमञ्जनशैलनाथम् ॥ ३॥
अप्राकृतावयवसंहितसंनिवेशं, आरूढयौवनमहीनकुमारभावम् ।
अम्लानकान्तिमतिवाङ्मनसानुभावं, आराधयामि हरिमञ्जनशैलनाथम् ॥ ४॥
आशावकाशसमुदित्वरसर्वगन्धं, आस्वादयत्सुगमसर्वरसस्वभावम् ।
आश्लेषगम्यसुखसंस्पृशनातिरेकं, आराधयामि हरिमञ्जनशैलनाथम् ॥ ५॥
आदर्शयन्तमतिसङ्कुचिताक्षिशक्तिं, आश्रावयन्तमखिलान् बधिरान् प्रकृत्या ।
आभाषयन्तमभितो नतमूकवर्गं, आराधयामि हरिमञ्जनशैलनाथम् ॥ ६॥
आधावयन्तमतिमारुतमेव पङ्गून् , आजानुलम्बिभुजयन्तमहो कुबाहून् ।
अन्यांश्च कृतशिरसः प्रतिजीवयन्तं, आराधयामि हरिमञ्जनशैलनाथम् ॥ ७॥
आजन्मनिर्धनजनानलकेशयन्तं, अज्ञानपि त्रिदशदेशिकदेश्ययन्तम् ।
अह्नाय वन्ध्यमपि मर्त्यमवन्ध्ययन्तं, आराधयामि हरिमञ्जनशैलनाथम् ॥ ८॥
आबद्धकङ्कणमशेषशरण्यतायां, आपत्सहायमपराधसहं नतानाम् ।
आसन्नसामगसुखालससूरिवर्गं, आराधयामि हरिमञ्जनशैलनाथम् ॥ ९॥
अध्यासितासनसरोजसनूपुराङ् घ्रिं, आमुक्तवीरकटकायतवृत्तजङ्घम् ।
आश्चर्यजानुयुगमप्रतिमोरुकाण्डं, आराधयामि हरिमञ्जनशैलनाथम् ॥ १०॥
आवर्तिनिम्ननिखिलाण्डनिदाननाभिं, आयामिदोर्विवरकेलिगृहावरोधम् ।
आबद्धरत्नमयभूषभुजाचतुष्कं, आराधयामि हरिमञ्जनशैलनाथम् ॥ ११॥
अंसावलम्बिमणिकुण्डलकान्तगण्डं, आविस्स्मितांशुमधुराधरबन्धुजीवम् ।
आस्याब्जसौरभसमुत्सुकदीर्घनासं, आराधयामि हरिमञ्जनशैलनाथम् ॥ १२॥
अर्धेन्दुभास्वदलिकोल्लसदूर्ध्वपुण्ड्रं, आलोलनीलकुटिलालकचारुवक्त्रम् ।
आविर्मयूखमणिचूडमहाकिरीटं, आराधयामि हरिमञ्जनशैलनाथम् ॥ १३॥
वादिभीतिकरार्येण रचिता भावबन्ध तः शोभते वेङ्कटाद्रीशविषया स्तुतिरद्भुता ॥