AdhyAtmarAmAyaNe bAlakANDam. Sansthanam.

0
45

अध्यात्मरामायणे बालकाण्डम् ।। Sansthanam.

प्रथमः सर्गः॥ राम हृदयम् ।।

यः पृथिवीभरवारणाय दिविजैः सम्प्रार्थितश्चिन्मयः
       सञ्जातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः ।
निश्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरां
       कीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे ॥ १॥

विश्वोद्भवस्थितिलयादिषु हेतुमेकं
      मायाश्रयं विगतमायमचिन्त्यमूर्तिम् ।
आनन्दसान्द्रममलं निजबोधरूपं
      सीतापतिं विदिततत्त्वमहं नमामि ॥ २॥

पठन्ति ये नित्यमनन्यचेतसः
          शृण्वन्ति चाध्यात्मिकसञ्ज्ञितं शुभम् ।
रामायणं सर्वपुराणसंमतं
      निर्धूतपापा हरिमेव यान्ति ते ॥ ३॥

अध्यात्मरामायणमेव नित्यं
      पठेद्यदीच्छेद्भवबन्धमुक्तिम् ।
गवां सहस्रायुतकोटिदानात्
      फलं लभेद्यः शृणुयात्स नित्यम् ॥ ४॥

पुरारिगिरिसम्भूता श्रीरामार्णवसङ्गता ।
अध्यात्मरामगङ्गेयं पुनाति भुवनत्रयम् ॥ ५॥

कैलासाग्रे कदाचिद्रविशतविमले मन्दिरे रत्नपीठे
       संविष्टं ध्याननिष्ठं त्रिनयनमभयं सेवितं सिद्धसन्घैः ।
देवी वामाङ्कसंस्था गिरिवरतनया पार्वती भक्तिनम्रा
       प्राहेदं देवमीशं सकलमलहरं वाक्यमानन्दकन्दम् ॥ ६॥

         पार्वत्युवाच
नमोऽस्तु ते देव जगन्निवास
      सर्वात्मदृक् त्वं परमेश्वरोऽसि ।
पृच्छामि तत्त्वं पुरुषोत्तमस्य
      सनातनं त्वं च सनातनोऽसि ॥ ७॥

गोप्यं यदत्यन्तमनन्यवाच्यं
      वदन्ति भक्तेषु महानुभावाः ।
तदप्यहोऽहं तव देव भक्ता
      प्रियोऽसि मे त्वं वद यत्तु पृष्टम् ॥ ८॥

ज्ञानं सविज्ञानमथानुभक्तिवैराग्ययुक्तं
            च मितं विभास्वत् ।
जानाम्यहं योषिदपि त्वदुक्तं
      यथा तथा ब्रूहि तरन्ति येन ॥ ९॥

पृच्छामि चान्यच्च परं रहस्यं
      तदेव चाग्रे वद वारिजाक्ष ।
श्रीरामचन्द्रेऽखिललोकसारे
      भक्तिर्दृढा नौर्भवति प्रसिद्धा ॥ १०॥

भक्तिः प्रसिद्धा भवमोक्षणाय
      नान्यत्ततः साधनमस्ति किञ्चित् ।
तथापि हृत्संशयबन्धनं मे
      विभेत्तुमर्हस्यमलोक्तिभिस्त्वम् ॥ ११॥

वदन्ति रामं परमेकमाद्यं
      निरस्तमायागुणसम्प्रवाहम् ।
भजन्ति चाहर्निशमप्रमत्ताः
      परं पदं यान्ति तथैव सिद्धाः ॥ १२॥

वदन्ति केचित्परमोऽपि रामः
      स्वाविद्यया संवृतमात्मसञ्ज्ञम् ।
जानाति नात्मानमतः परेण
      सम्बोधितो वेद परात्मतत्त्वम् ॥ १३॥

यदि स्म जानाति कुतो विलापः
      सीताकृतेऽनेन कृतः परेण ।
जानाति नैवं यदि केन सेव्यः
      समो हि सर्वैरपि जीवजातैः ॥ १४॥

अत्रोत्तरं किं विदितं भवद्भिः
       तद्ब्रूत मे संशयभेदि वाक्यम् ॥ १५॥

         श्रीमहादेव उवाच
धन्यासि भक्तासि परात्मनस्त्वं
      यज्ज्ञातुमिच्छा तव रामतत्त्वम् ।
पुरा न केनाप्यभिचोदितोऽहं
      वक्तुं रहस्यं परमं निगूढम् ॥ १६॥

त्वयाद्य भक्त्या परिनोदितोऽहं
      वक्ष्ये नमस्कृत्य रघूत्तमं ते ।
रामः परात्मा प्रकृतेरनादि-
      रानन्द एकः पुरुषोत्तमो हि ॥ १७॥

स्वमायया कृत्स्नमिदं हि सृष्ट्वा
      नभोवदन्तर्बहिरास्थितो यः ।
सर्वान्तरस्थोऽपि निगूढ आत्मा
      स्वमायया सृष्टमिदं विचष्टे ॥ १८॥

जगन्ति नित्यं परितो भ्रमन्ति
      यत्सन्निधौ चुम्बकलोहवद्धि ।
एतन्न जानन्ति विमूढचित्ताः
      स्वाविद्यया संवृतमानसा ये ॥ १९॥

स्वाज्ञानमप्यात्मनि शुद्धबुद्धे
            स्वारोपयन्तीह निरस्तमाये ।
संसारमेवानुसरन्ति ते वै
      पुत्रादिसक्ताः पुरुकर्मयुक्ताः ॥ २०॥

यथाऽप्रकाशो न तु विद्यते रवौ
      ज्योतिःस्वभावे परमेश्वरे तथा ।
विशुद्धविज्ञानघने रघूत्तमेऽविद्या
      कथं स्यात्परतः परात्मनि ॥ २१॥

यथा हि चाक्ष्णा भ्रमता गृहादिकं
      विनष्टदृष्टेर्भ्रमतीव दृश्यते ।
तथैव देहेन्द्रियकर्तुरात्मनः
      कृते परेऽध्यस्य जनो विमुह्यति ॥ २२॥

नाहो न रात्रिः सवितुर्यथा भवेत्
      प्रकाशरूपाव्यभिचारतः क्वचित् ।
ज्ञानं तथाज्ञानमिदं द्वयं हरौ
      रामे कथं स्थास्यति शुद्धचिद्घने ॥ २३॥

तस्मात्परानन्दमये रघूत्तमे
      विज्ञानरूपे हि न विद्यते तमः ।
अज्ञानसाक्षिण्यरविन्दलोचने
      मायाश्रयत्वान्न हि मोहकारणम् ॥ २४॥

अत्र ते कथयिष्यामि रहस्यमपि दुर्लभम् ।
सीताराममरुत्सूनुसंवादं मोक्षसाधनम् ॥ २५॥

पुरा रामायणे रामे रावणं देवकण्टकम् ।
हत्वा रणे रणश्लाघी सपुत्रबलवाहनम् ॥ २६॥

सीतया सह सुग्रीवलक्ष्मणाभ्यां समन्वितः ।
अयोध्यामगमद्रामो हनूमत्प्रमुखैर्वृतः ॥ २७॥

अभिषिक्तः परिवृतो वसिष्ठाद्यैर्महात्मभिः ।
सिंहासने समासीनः कोटिसूर्यसमप्रभः ॥ २८॥

दृष्ट्वा तदा हनूमन्तं  प्राञ्जलिं पुरतः स्थितम् ।
कृतकार्यं निराकाङ्क्षं ज्ञानापेक्षं महामतिम् ॥ २९॥

रामः सीतामुवाचेदं ब्रूहि तत्त्वं हनूमते ।
निष्कल्मषोऽयं ज्ञानस्य पात्रं नो नित्यभक्तिमान् ॥ ३०॥

तथेति जानकी प्राह तत्त्वं रामस्य निश्चितम् ।
हनूमते प्रपन्नाय सीता लोकविमोहिनी ॥ ३१॥

         सीतोवाच
रामं विद्धि परं ब्रह्म सच्चिदानन्दमद्वयम् ।
सर्वोपाधिविनिर्मुक्तं सत्तामात्रमगोचरम् ॥ ३२॥

आनन्दं निर्मलं शान्तं निर्विकारं निरञ्जनम् ।
सर्वव्यापिनमात्मानं स्वप्रकाशमकल्मषम् ॥ ३३॥

मां विद्धि मूलप्रकृतिं सर्गस्थित्यन्तकारिणीम् ।
तस्य सन्निधिमात्रेण सृजामीदमतन्द्रिता ॥ ३४॥

तत्सान्निध्यान्मया सृष्टं तस्मिन्नारोप्यतेऽबुधैः ।
अयोध्यानगरे जन्म रघुवंशेऽतिनिर्मले ॥ ३५॥

विश्वामित्रसहायत्वं मखसंरक्षणं ततः ।
अहल्याशापशमनं चापभङ्गो महेशितुः ॥ ३६॥

मत्पाणिग्रहणं पश्चाद्भार्गवस्य मदक्षयः ।
अयोध्यानगरे वासो मया द्वादशवार्षिकः ॥ ३७॥

दण्डकारण्यगमनं विराधवध एव च ।
मायामारीचमरणं मायासीताहृतिस्तथा ॥ ३८॥

जटायुषो मोक्षलाभः कबन्धस्य तथैव च ।
शबर्याः पूजनं पश्चात्सुग्रीवेण समागमः ॥ ३९॥

वालिनश्च वधः पश्चात्सीतान्वेषणमेव च ।
सेतुबन्धश्च जलधौ लङ्कायाश्च निरोधनम् ॥ ४०॥

रावणस्य वधो युद्धे सपुत्रस्य दुरात्मनः ।
विभीषणे राज्यदानं पुष्पकेण मया सह ॥ ४१॥

अयोध्यागमनं पश्चाद्राज्ये रामाभिषेचनम् ।
एवमादीनि कर्माणि मयैवाचरितान्यपि
आरोपयन्ति रामेऽस्मिन्निर्विकारेऽखिलात्मनि ॥ ४२॥

रामो न गच्छति न तिष्ठति नानुशोचत्याकाङ्क्षते
     त्यजति नो न करोति किञ्चित् ।
आनन्दमूर्तिरचलः परिणामहीनो
      मायागुणाननुगतो हि तथा विभाति ॥ ४३॥

ततो रामः स्वयं प्राह हनूमन्तमुपस्थितम् ।
शृणु तत्त्वं प्रवक्ष्यामि ह्यात्मानात्मपरात्मनाम् ॥ ४४॥

आकाशस्य यथा भेदस्त्रिविधो दृश्यते महान् ।
जलाशये महाकाशस्तदवच्छिन्न एव हि ।
प्रतिबिम्बाख्यमपरं दृश्यते त्रिविधं नभः ॥ ४५॥

बुद्ध्यवच्छिन्नचैतन्यमेकं पूर्णमथापरम् ।
आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः ॥ ४६॥

साभासबुद्धेः कर्तृत्वमविच्छिन्नेऽविकारिणि ।
साक्षिण्यारोप्यते भ्रान्त्या जीवत्वं च तथा बुधैः ॥ ४७॥

आभासस्तु मृषा बुद्धिरविद्याकार्यमुच्यते ।
अविच्छिन्नं तु तद्ब्रह्म विच्छेदस्तु विकल्पतः ॥ ४८॥

अविच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते ।
तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा ॥ ४९॥

ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनोः ।
तदाऽविद्या स्वकार्यैश्च नश्यत्येव न संशयः ॥ ५०॥

एतद्विज्ञाय मद्भक्तो मद्भावायोपपद्यते ।
मद्भक्तिविमुखानां हि शास्त्रगर्तेषु मुह्यताम् ।
न ज्ञानं न च मोक्षः स्यात्तेषां जन्मशतैरपि ॥ ५१॥

इदं रहस्यं हृदयं ममात्मनो
      मयैव साक्षात्कथितं तवानघ ।
मद्भक्तिहीनाय शठाय न त्वया
      दातव्यमैन्द्रादपि राज्यतोऽधिकम् ॥ ५२॥

          श्रीमहादेव उवाच
एतत्तेऽभिहितं देवि श्रीरामहृदयं मया ।
अतिगुह्यतमं हृद्यं पवित्रं पापशोधनम् ॥ ५३॥

साक्षाद्रामेण कथितं सर्ववेदान्तसङ्ग्रहम् ।
यः पठेत्सततं भक्त्या स मुक्तो नात्र संशयः ॥ ५४॥

ब्रह्महत्यादि पापानि बहुजन्मार्जितान्यपि ।
नश्यन्त्येव न सन्देहो रामस्य वचनं यथा ॥ ५५॥

योऽतिभ्रष्टोऽतिपापी परधनपरदारेषु नित्योद्यतो वा
       स्तेयी ब्रह्मघ्नमातापितृवधनिरतो योगिवृन्दापकारी
यः सम्पूज्याभिरामं पठति च हृदयं रामचन्द्रस्य भक्त्या
       योगीन्द्रैरप्यलभ्यं पदमिह लभते सर्वदेवैः स पूज्यम् ॥ ५६॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे
        श्रीरामहृदयं नाम प्रथमः सर्गः ॥ १॥


॥ द्वितीयः सर्गः॥
          पार्वत्युवाच
धन्यास्म्यनुगृहीतास्मि कृतार्थास्मि जगत्प्रभो ।
विच्छिन्नो मेऽतिसन्देहग्रन्थिर्भवदनुग्रहात् ॥ १॥

त्वन्मुखाद्गलितं रामतत्त्वामृतरसायनम् ।
पिबन्त्या मे मनो देव न तृप्यति भवापहम् ॥ २॥

श्रीरामस्य कथा त्वत्तः श्रुता सङ्क्षेपतो मया ।
इदानीं श्रोतुमिच्छामि विस्तरेण स्फुटाक्षरम् ॥ ३॥

          श्रीमहादेव उवाच
शृणु देवि प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् ।
अध्यात्मरामचरितं रामेणोक्तं पुरा मम ॥ ४ ।
तदद्य कथयिष्यामि शृणु तापत्रयापहम् ।
यच्छ्रुत्वा मुच्यते जन्तुरज्ञानोत्थमहाभयात् ।
प्राप्नोति परमामृद्धिम् दीर्घायुः पुत्रसन्ततिम् ॥ ५॥

भूमिर्भारेण मग्ना दशवदनमुखाशेषरक्षोगणानां
धृत्वा गोरूपमादौ दिविजमुनिजनैः साकमब्जासनस्य ।
गत्वा लोकं रुदन्ती व्यसनमुपगतं ब्रह्मणे प्राह सर्वं
ब्रह्मा ध्यात्वा मुहूर्तं सकलमपि हृदावेदशेषात्मकत्वात् ॥ ६॥

तस्मात्क्षीरसमुद्रतीरमगमद् ब्रह्माथ देवैर्वृतो
देव्या चाखिललोकहृत्स्थमजरं सर्वज्ञमीशं हरिम् ।
अस्तौषीच्छ्रुतिसिद्धनिर्मलपदैः स्तोत्रैः पुराणोद्भवैः
भक्त्या गद्गदया गिरातिविमलैरानन्दबाष्पैर्वृतः ॥ ७॥

ततः स्फुरत्सहस्रांशुसहस्रसदृशप्रभः ।
आविरासीद्धरिः प्राच्यां दिशां व्यपनयन्स्तमः ॥ ८॥

कथञ्चिद्दृष्टवान् ब्रह्मा दुर्दर्शमकृतात्मनाम् ।
इन्द्रनीलप्रतीकाशं स्मितास्यं पद्मलोचनम् ॥ ९॥

किरीटहारकेयूरकुण्डलैः कटकादिभिः ।
विभ्राजमानं श्रीवत्सकौस्तुभप्रभयान्वितम् ॥ १०॥

स्तुवद्भिः सनकाद्यैश्च पार्षदैः परिवेष्टितम् ।
शङ्खचक्रगदापद्मवनमालाविराजितम् ॥ ११॥

स्वर्णयज्ञोपवीतेन स्वर्णवर्णाम्बरेण च ।
श्रिया भूम्या च सहितं गरुडोपरि संस्थितम् ॥ १२॥

हर्षगद्गदया वाचा स्तोतुं समुपचक्रमे ॥ १३॥

          ब्रह्मोवाच
नतोऽस्मि ते पदं देव प्राणबुद्धीन्द्रियात्मभिः ।
यच्चिन्त्यते कर्मपाशाद्धृदि नित्यं मुमुक्षुभिः ॥ १४॥

मायया गुणमय्या त्वं सृजस्यवसि लुम्पसि ।
जगत्तेन न ते लेप आनन्दानुभवात्मनः ॥ १५॥

तथा शुद्धिर्न दुष्टानां दानाध्ययनकर्मभिः ।
शुद्धात्मता ते यशसि सदा भक्तिमतां यथा ॥ १६॥

अतस्तवाङ्घ्रिर्मे दृष्टश्चित्तदोषापनुत्तये ।
सद्योऽन्तर्हृदये नित्यं मुनिभिः सात्वतैर्वृतः ॥ १७॥

ब्रह्माद्यैः स्वार्थसिद्ध्यर्थमस्माभिः पूर्वसेवितः ।
अपरोक्षानुभूत्यर्थं ज्ञानिभिर्हृदि भावितः ॥ १८॥

तवाङ्घ्रिपूजानिर्माल्यतुलसीमालया विभो ।
स्पर्धते वक्षसि पदं लब्ध्वापि श्रीः सपत्निवत् ॥ १९॥

अतस्त्वत्पादभक्तेषु तव भक्तिः श्रियोऽधिका ।
भक्तिमेवाभिवाञ्छन्ति त्वद्भक्ताः सारवेदिनः ॥ २०॥

अतस्त्वत्पादकमले भक्तिरेव सदास्तु मे ।
संसाराऽऽमयतप्तानां भेषजं भक्तिरेव ते ॥ २१॥

इति ब्रुवन्तं ब्रह्माणं बभाषे भगवान् हरिः ।
किं करोमीति तं वेधाः प्रत्युवाचातिहर्षितः ॥ २२॥

भगवन् रावणो नाम पौलस्त्यतनयो महान् ।
राक्षसानामधिपतिर्मद्दत्तवरदर्पितः ॥ २३॥

त्रिलोकीं लोकपालान्श्च बाधते विश्वबाधकः ।
मानुषेण मृतिस्तस्य मया कल्याण कल्पिता ॥ २४॥

अतस्त्वं मानुषो भूत्वा जहि देवरिपुं प्रभो ॥ २५॥

          श्रीभगवानुवाच
कश्यपस्य वरो दत्तस्तपसा तोषितेन मे ।
याचितः पुत्रभावाय तथेत्यङ्गीकृतं मया ।
स इदानीं दशरथो भूत्वा तिष्ठति भूतले ॥ २६॥

तस्याहं पुत्रतामेत्य कौसल्यायां शुभे दिने ।
चतुर्धाऽऽत्मानमेवाहं सृजामीतरयोः पृथक् ॥ २७॥

योगमायापि सीतेति जनकस्य गृहे तदा ।
उत्पत्स्यते तया सार्धं सर्वं सम्पादयाम्यहम् ।
इत्युक्त्वान्तर्दधे विष्णुर्ब्रह्मा देवानथाब्रवीत् ॥ २८॥

          ब्रह्मोवाच
विष्णुर्मानुषरूपेण भविष्यति रघोः कुले ॥ २९॥

यूयं सृजध्वं सर्वेऽपि वानरेष्वंशसम्भवान् ।
विष्णोः सहायं कुरुत यावत्स्थास्यति भूतले ॥ ३०॥

इति देवान् समादिश्य समाश्वास्य च मेदिनीम् ।
ययौ ब्रह्मा स्वभवनं विज्वरः सुखमास्थितः ॥ ३१॥

देवाश्च सर्वे हरिरूपधारिणः
      स्थिताः सहायार्थमितस्ततो हरेः ।
महाबलाः पर्वतवृक्षयोधिनः
      प्रतीक्षमाणा भगवन्तमीश्वरम् ॥ ३२॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे
      बालकाण्डे द्वितीयः सर्गः ॥ २॥


॥ तृतीयः सर्गः ॥
          श्रीमहादेव उवाच
अथ राजा दशरथः श्रीमान् सत्यपरायणः ।
अयोध्याधिपतिर्वीरः सर्वलोकेषु विश्रुतः ॥ १॥

सोऽनपत्यत्वदुःखेन पीडितो गुरुमेकदा ।
वसिष्ठं स्वकुलाचार्यमभिवाद्येदमब्रवीत् ॥ २॥

स्वामिन् पुत्राः कथं मे स्युः सर्वलक्षणलक्षिताः ।
पुत्रहीनस्य मे राज्यं सर्वं दुःखाय कल्पते ॥ ३॥

ततोऽब्रवीद्वसिष्ठस्तं भविष्यन्ति सुतास्तव ।
चत्वारः सत्त्वसम्पन्ना लोकपाला इवापराः ॥ ४॥

शान्ताभर्तारमानीय ऋष्यशृङ्गं तपोधनम् ।
अस्माभिः सहितः पुत्रकामेष्टिं शीघ्रमाचर ॥ ५॥

तथेति मुनिमानीय मन्त्रिभिः सहितः शुचिः ।
यज्ञकर्म समारेभे मुनिभिर्वीतकल्मषैः ॥ ६॥

श्रद्धया हूयमानेऽग्नौ तप्तजाम्बूनदप्रभः ।
पायसं स्वर्णपात्रस्थं गृहीत्वोवाच हव्यवाट् ॥ ७॥

गृहाण पायसं दिव्यं पुत्रीयं देवनिर्मितम् ।
लप्स्यसे परमात्मानं पुत्रत्वेन न संशयः ॥ ८॥

इत्युक्त्वा पायसं दत्त्वा राज्ञे सोऽन्तर्दधेऽनलः ।
ववन्दे मुनिशार्दूलौ राजा लब्धमनोरथः ॥ ९॥

वसिष्ठऋष्यशृङ्गाभ्यामनुज्ञातो ददौ हविः ।
कौसल्यायै सकैकेय्यै अर्धमर्धं प्रयत्नतः ॥ १०॥

ततः सुमित्रा सम्प्राप्ता जगृध्नुः पौत्रिकं चरुम् ।
कौसल्या तु स्वभागार्धं ददौ तस्यै मुदान्विता ॥ ११॥

कैकेयी च स्वभागार्धं ददौ प्रीतिसमन्विता ।
उपभुज्य चरुं सर्वाः स्त्रियो गर्भसमन्विताः ॥ १२॥

देवता इव रेजुस्ताः स्वभासा राजमन्दिरे ।
दशमे मासि कौसल्या सुषुवे पुत्रमद्भुतम् ॥ १३॥

मधुमासे सिते पक्षे नवम्यां कर्कटे शुभे ।
पुनर्वस्वृक्षसहिते उच्चस्थे ग्रहपञ्चके ॥ १४॥

मेषं पूषणि सम्प्राप्ते पुष्पवृष्टिसमाकुले ।
आविरासीज्जगन्नाथः परमात्मा सनातनः ॥ १५॥

नीलोत्पलदलश्यामः पीतवासाश्चतुर्भुजः ।
जलजारुणनेत्रान्तः स्फुरत्कुण्डलमण्डितः ॥ १६॥

सहस्रार्कप्रतीकाशः किरीटी कुञ्चितालकः ।
शङ्खचक्रगदापद्मवनमालाविराजितः ॥ १७॥

अनुग्रहाख्यहृत्स्थेन्दुसूचकस्मितचन्द्रिकः ।
करुणारससम्पूर्णविशालोत्पललोचनः ।
श्रीवत्सहारकेयूरनूपुरादिविभूषणः ॥ १८॥

दृष्ट्वा तं परमात्मानं कौसल्या विस्मयाकुला ।
हर्षाश्रुपूर्णनयना नत्वा प्राञ्जलिरब्रवीत् ॥ १९॥

          कौसल्योवाच
देवदेव नमस्तेऽस्तु शङ्खचक्रगदाधर ।
परमात्माच्युतोऽनन्तः पूर्णस्त्वं पुरुषोत्तमः ॥ २०॥

वदन्त्यगोचरं वाचां बुद्ध्यादीनामतीन्द्रियम् ।
त्वां वेदवादिनः सत्तामात्रं ज्ञानैकविग्रहम् ॥ २१॥

त्वमेव मायया विश्वं सृजस्यवसि हन्सि च ।
सत्त्वादिगुणसंयुक्तस्तुर्य एवामलः सदा ॥ २२॥

करोषीव न कर्ता त्वं गच्छसीव न गच्छसि ।
शृणोषि न शृणोषीव पश्यसीव न पश्यसि ॥ २३॥

अप्राणो ह्यमनाः शुद्ध इत्यादि श्रुतिरब्रवीत् ।
समः सर्वेषु भूतेषु तिष्ठन्नपि न लक्ष्यसे ॥ २४॥

अज्ञानध्वान्तचित्तानां व्यक्त एव सुमेधसाम् ।
जठरे तव दृश्यन्ते ब्रह्माण्डाः परमाणवः ॥ २५॥

त्वं ममोदरसम्भूत इति लोकान् विडम्बसे ।
भक्तेषु पारवश्यं ते दृष्टं मेऽद्य रघूत्तम ॥ २६॥

संसारसागरे मग्ना पतिपुत्रधनादिषु ।
भ्रमामि मायया तेऽद्य पादमूलमुपागता ॥ २७॥

देव त्वद्रूपमेतन्मे सदा तिष्ठतु मानसे ।
आवृणोतु न मां माया तव विश्वविमोहिनी ॥ २८॥

उपसंहर विश्वात्मन्नदो रूपमलौकिकम् ।
दर्शयस्व महानन्दबालभावं सुकोमलम् ।
ललितालिङ्गनालापैस्तरिष्याम्युत्कटं तमः ॥ २९॥

          श्रीभगवानुवाच
यद्यदिष्टं तवास्त्यम्ब तत्तद्भवतु नान्यथा ॥ ३०॥

अहं तु ब्रह्मणा पूर्वं भूमेर्भारापनुत्तये ।
प्रार्थितो रावणं हन्तुं मानुषत्वमुपागतः ॥ ३१॥

त्वया दशरथेनाहं तपसाराधितः पुरा ।
मत्पुत्रत्वाभिकाङ्क्षिण्या तथा कृतमनिन्दिते ॥ ३२॥

रूपमेतत्त्वया दृष्टं प्राक्तनं तपसः फलम् ।
मद्दर्शनं विमोक्षाय कल्पते ह्यन्यदुर्लभम् ॥ ३३॥

संवादमावयोर्यस्तु पठेद्वा शृणुयादपि ।
स याति मम सारूप्यं मरणे मत्स्मृतिं लभेत् ॥ ३४॥

इत्युक्त्वा मातरं रामो बालो भूत्वा रुरोद ह ।
बालत्वेऽपीन्द्रनीलाभो विशालाक्षोऽतिसुन्दरः ॥ ३५॥

बालारुणप्रतीकाशो लालिताखिललोकपः ।
अथ राजा दशरथः श्रुत्वा पुत्रोद्भवोत्सवम् ।
आनन्दार्णवमग्नोऽसावाययौ गुरुणा सह ॥ ३६॥

रामं राजीवपत्राक्षं दृष्ट्वा हर्षाश्रुसम्प्लुतः ।
गुरुणा जातकर्माणि कर्तव्यानि चकार सः ॥ ३७॥

कैकेयी चाथ भरतमसूत कमलेक्षणा ।
सुमित्रायां यमौ जातौ पूर्णेन्दुसदृशाननौ ॥ ३८॥

तदा ग्रामसहस्राणि ब्राह्मणेभ्यो मुदा ददौ ।
सुवर्णानि च रत्नानि वासांसि सुरभीः शुभाः ॥ ३९॥

यस्मिन् रमन्ते मुनयो विद्यया ज्ञानविप्लवे ।
तं गुरुः प्राह रामेति रमणाद्राम इत्यपि ॥ ४०॥

भरणाद्भरतो नाम लक्ष्मणं लक्षणान्वितम् ।
शत्रुघ्नं शत्रुहन्तारमेवं गुरुरभाषत ॥ ४१॥

लक्ष्मणो रामचन्द्रेण शत्रुघ्नो भरतेन च ।
द्वन्द्वीभूय चरन्तौ तौ पायसांशानुसारतः ॥ ४२॥

रामस्तु लक्ष्मणेनाथ विचरन् बाललीलया ।
रमयामास पितरौ चेष्टितैर्मुग्धभाषितैः ॥ ४३॥

भाले स्वर्णमयाश्वत्थपर्णमुक्ताफलप्रभम् ।
कण्ठे रत्नमणिव्रातमध्यद्वीपिनखाञ्चितम् ॥ ४४॥

कर्णयोः स्वर्णसम्पन्नरत्नार्जुनसटालुकम् ।
शिञ्जानमणिमञ्जीरकटिसूत्राङ्गदैर्वृतम् ॥ ४५॥

स्मितवक्त्राल्पदशनमिन्द्रनीलमणिप्रभम् ।
अङ्गणे रिङ्गमाणं तं तर्णकाननु सर्वतः ।
दृष्ट्वा दशरथो राजा कौसल्या मुमुदे तदा ॥ ४६॥

भोक्ष्यमाणो दशरथो राममेहीति चासकृत् ।
आह्वयत्यतिहर्षेण प्रेम्णा नायाति लीलया ॥ ४७॥

आनयेति च कौसल्यामाह सा सस्मिता सुतम् ।
धावत्यपि न शक्नोति स्प्रष्टुं योगिमनोगतिम् ॥ ४८॥

प्रहसन् स्वयमायाति कर्दमाङ्कितपाणिना ।
किञ्चिद्गृहीत्वा कवलं पुनरेव पलायते ॥ ४९॥

कौसल्या जननी तस्य मासि मासि प्रकुर्वती ।
वायनानि विचित्राणि समलङ्कृत्य राघवम् ॥ ५०॥

अपूपान् मोदकान् कृत्वा कर्णशष्कुलिकास्तथा ।
कर्णपूरान्श्च विविधान् वर्षवृद्धौ च वायनम् ॥ ५१॥

गृहकृत्यं तया त्यक्तं तस्य चापल्यकारणात् ।
एकदा रघुनाथोऽसौ गतो मातरमन्तिके ॥ ५२॥

भोजनं देहि मे मातर्न श्रुतं कार्यसक्तया ।
ततः क्रोधेन भाण्डानि लगुडेनाहनत्तदा ॥ ५३॥

शिक्यस्थं पातयामास गव्यं च नवनीतकम् ।
लक्ष्मणाय ददौ रामो भरताय यथाक्रमम् ॥ ५४॥

शत्रुघ्नाय ददौ पश्चाद्दधि दुग्धं तथैव च ।
सूदेन कथिते मात्रे हास्यं कृत्वा प्रधावति ॥ ५५॥

आगतां तां विलोक्याथ ततः सर्वैः पलायितम् ।
कौसल्या धावमानापि प्रस्खलन्ती पदे पदे ॥ ५६॥

रघुनाधं करे धृत्वा किञ्चिन्नोवाच भामिनी ।
बालभावं समाश्रित्य मन्दं मन्दं रुरोद ह ॥ ५७॥

ते सर्वे लालिता मात्रा गाढमालिङ्ग्य यत्नतः ।
एवमानन्दसन्दोहजगदानन्दकारकः ॥ ५८॥

मायाबालवपुर्धृत्वा रमयामास दम्पती ।
अथ कालेन ते सर्वे कौमारं प्रतिपेदिरे ॥ ५९॥

उपनीता वसिष्ठेन सर्वविद्याविशारदाः ।
धनुर्वेदे च निरताः सर्वशास्त्रार्थवेदिनः ॥ ६०॥

बभूवुर्जगतां नाथा लीलया नररूपिणः ।
लक्ष्मणस्तु सदा राममनुगच्छति सादरम् ॥ ६१॥

सेव्यसेवकभावेन शत्रुघ्नो भरतं तथा ।
रामश्चापधरो नित्यं तूणीबाणान्वितः प्रभुः ॥ ६२॥

अश्वारूढो वनं याति मृगयायै सलक्ष्मणः ।
हत्वा दुष्टमृगान् सर्वान् पित्रे सर्वं न्यवेदयत् ॥ ६३॥

प्रातरुत्थाय सुस्नातः पितरावभिवाद्य च ।
पौरकार्याणि सर्वाणि करोति विनयान्वितः ॥ ६४॥

बन्धुभिः सहितो नित्यं भुक्त्वा मुनिभिरन्वहम् ।
धर्मशास्त्ररहस्यानि शृणोति व्याकरोति च ॥ ६५॥

एवं परात्मा मनुजावतारो मनुष्यलोकाननुसृत्य सर्वम् ।
चक्रेऽविकारी परिणामहीनो विचार्यमाणे न करोति किञ्चित् ॥ ६६॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे
बालकाण्डे तृतीयः सर्गः ॥ ३॥


॥ चतुर्थः सर्गः ॥
          श्रीमहादेव उवाच
कदाचित्कौशिकोऽभ्यागादयोध्यां ज्वलनप्रभः ।
द्रष्टुं रामं परात्मानं जातं ज्ञात्वा स्वमायया ॥ १॥

दृष्ट्वा दशरथो राजा प्रत्युत्थायाचिरेण तु ।
वसिष्ठेन समागम्य पूजयित्वा यथाविधि ॥ २॥

अभिवाद्य मुनिं राजा प्राञ्जलिर्भक्तिनम्रधीः ।
कृतार्थोऽस्मि मुनीन्द्राहं त्वदागमनकारणात् ॥ ३॥

त्वद्विधा यद्गृहम् यान्ति तत्रैवायान्ति सम्पदः ।
यदर्थमागतोऽसि त्वं ब्रूहि सत्यं करोमि तत् ॥ ४॥

विश्वामित्रोऽपि तं प्रीतः प्रत्युवाच महीपतिम् ।
अहं पर्वणि सम्प्राप्ते दृष्ट्वा यष्टुं सुरान् पितॄन् ॥ ५॥

यदारभे तदा दैत्या विघ्नं कुर्वन्ति नित्यशः ।
मारीचश्च सुबाहुश्चापरे चानुचरास्तयोः ॥ ६॥

अतस्तयोर्वधार्थाय ज्येष्ठं रामं प्रयच्छ मे ।
लक्ष्मणेन सह भ्रात्रा तव श्रेयो भविष्यति ॥ ७॥

वसिष्ठेन सहामन्त्र्य दीयतां यदि रोचते ।
पप्रच्छ गुरुमेकान्ते राजा चिन्तापरायणः ॥ ८॥

किं करोमि गुरो रामं त्यक्तुं नोत्सहते मनः ।
बहुवर्षसहस्रान्ते कष्टेनोत्पादिताः सुताः ॥ ९॥

चत्वारोऽमरतुल्यास्ते तेषां रामोऽतिवल्लभः ।
रामस्त्वितो गच्छति चेन्न जीवामि कथञ्चन ॥ १०॥

प्रत्याख्यातो यदि मुनिः शापं दास्यत्यसंशयः ।
कथं श्रेयो भवेन्मह्यमसत्यं चापि न स्पृशेत् ॥ ११॥

          वसिष्ठ उवाच
शृणु राजन् देवगुह्यं गोपनीयं प्रयत्नतः ।
रामो न मानुषो जातः परमात्मा सनातनः ॥ १२॥

भूमेर्भारावताराय ब्रह्मणा प्रार्थितः पुरा ।
स एव जातो भवने कौसल्यायां तवानघ ॥ १३॥

त्वं तु प्रजापतिः पूर्वं कश्यपो ब्रह्मणः सुतः ।
कौसल्या चादितिर्देवमाता पूर्वं यशस्विनी ॥ १४॥

भवन्तौ तप उग्रं वै तेपाथे बहुवत्सरम् ।
अग्राम्यविषयौ विष्णुपूजाध्यानैकतत्परौ ।
तदा प्रसन्नो भगवान् वरदो भक्तवत्सलः ॥ १५॥

वृणीष्व वरमित्युक्ते त्वं मे पुत्रो भवामल ।
इति त्वया याचितोऽसौ भगवान् भूतभावनः ॥ १६॥

तथेत्युक्त्वाद्य पुत्रस्ते जातो रामः स एव हि ।
शेषस्तु लक्ष्मणो राजन् राममेवान्वपद्यत ॥ १७॥

जातौ भरतशत्रुघ्नौ शङ्खचक्रे गदाभृतः ।
योगमायापि सीतेति जाता जनकनन्दिनी ॥ १८॥

विश्वामित्रोऽपि रामाय तां योजयितुमागतः ।
एतद्गुह्यतमं राजन्न वक्तव्यं कदाचन ॥ १९॥

अतः प्रीतेन मनसा पूजयित्वाथ कौशिकम् ।
प्रेषयस्व रमानाथं राघवं सहलक्ष्मणम् ॥ २०॥

वसिष्ठेनैवमुक्तस्तु राजा दशरथस्तदा ।
कृतकृत्यमिवात्मानं मेने प्रमुदितान्तरः ॥ २१॥

आहूय रामरामेति लक्ष्मणेति च सादरम् ।
आलिङ्ग्य मूर्ध्न्यवघ्राय कौशिकाय समर्पयत् ॥ २२॥

ततोऽतिहृष्टो भगवान् विश्वामित्रः प्रतापवान् ।
आशीर्भिरभिनन्द्याथ आगतौ रामलक्ष्मणौ ।
गृहीत्वा चापतूणीरबाणखड्गधरौ ययौ ॥ २३॥

किञ्चिद्देशमतिक्रम्य राममाहूय भक्तितः ।
ददौ बलां चातिबलां विद्ये द्वे देवनिर्मिते ॥ २४॥

ययोर्ग्रहणमात्रेण क्षुत्क्षामादि न जायते ॥ २५॥

तत उत्तीर्य गङ्गां ते ताटकावनमागमन् ।
विश्वामित्रस्तदा प्राह रामं सत्यपराक्रमम् ॥ २६॥

अत्रास्ति ताटका नाम राक्षसी कामरूपिणी ।
बाधते लोकमखिलं जहि तामविचारयन् ॥ २७॥

तथेति धनुरादाय सगुणं रघुनन्दनः ।
टङ्कारमकरोत्तेन शब्देनापूरयद्वनम् ॥ २८॥

तच्छ्रुत्वासहमाना सा ताटका घोररूपिणी ।
क्रोधसंमूर्च्छिता राममभिदुद्राव मेघवत् ॥ २९॥

तामेकेन शरेणाशु ताडयामास वक्षसि ।
पपात विपिने घोरा वमन्ती रुधिरं बहु ॥ ३०॥

ततोऽतिसुन्दरी यक्षी सर्वाभरणभूषिता ।
शापात्पिशाचतां प्राप्ता मुक्ता रामप्रसादतः ॥ ३१॥

नत्वा रामं परिक्रम्य गता रामाज्ञया दिवम् ॥ ३२॥

ततोऽतिहृष्टः परिरभ्य रामं
       मूर्धन्यवघ्राय विचिन्त्य किञ्चित् ।
सर्वास्त्रजालं सरहस्यमन्त्रं
       प्रीत्याभिरामाय ददौ मुनीन्द्रः ॥ ३३॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे
बालकाण्डे चतुर्थः सर्गः ॥ ४॥


॥ पञ्चमः सर्गः ॥
          श्रीमहादेव उवाच
तत्र कामाश्रमे रम्ये कानने मुनिसङ्कुले ।
उषित्वा रजनीमेकां प्रभाते प्रस्थिताः शनैः ॥ १॥

सिद्धाश्रमं गताः सर्वे सिद्धचारणसेवितम् ।
विश्वामित्रेण सन्दिष्टा मुनयस्तन्निवासिनः ॥ २॥

पूजां च महतीं चक्रू रामलक्ष्मणयोर्द्रुतम् ।
श्रीरामः कौशिकं प्राह मुने दीक्षां प्रविश्यताम् ॥ ३॥

दर्शयस्व महाभाग कुतस्तौ राक्षसाधमौ ।
तथेत्युक्त्वा मुनिर्यष्टुमारेभे मुनिभिः सह ॥ ४॥

मध्याह्ने ददृशाते तौ राक्षसौ कामरूपिणौ ।
मारीचश्च सुबाहुश्च वर्षन्तौ रुधिरास्थिनी ॥ ५॥

रामोऽपि धनुरादाय द्वौ बाणौ सन्दधे सुधीः ।
आकर्णान्तं समाकृष्य विससर्ज तयोः पृथक् ॥ ६॥

तयोरेकस्तु मारीचं भ्रामयञ्छतयोजनम् ।
पातयामास जलधौ तदद्भुतमिवाभवत् ॥ ७॥

द्वितीयोऽग्निमयो बाणः सुबाहुमजयत्क्षणात् ।
अपरे लक्षमणेनाशु हतास्तदनुयायिनः ॥ ८॥

पुष्पौघैराकिरन् देवा राघवं सहलक्ष्मणम् ।
देवदुन्दुभयो नेदुस्तुष्टुवुः सिद्धचारणाः ॥ ९॥

विश्वामित्रस्तु सम्पूज्य पूजार्हं रघुनन्दनम् ।
अङ्के निवेश्य चालिङ्ग्य भक्त्या बाष्पाकुलेक्षणः ॥ १०॥

भोजयित्वा सह भ्रात्रा रामं पक्वफलादिभिः ।
पुराणवाक्यैर्मधुरैर्निनाय दिवसत्रयम् ॥ ११॥

चतुर्थेऽहनि सम्प्राप्ते कौशिको राममब्रवीत् ।
राम राम महायज्ञं द्रष्टुं गच्छामहे वयम् ॥ १२॥

विदेहराजनगरे जनकस्य महात्मनः ।
तत्र माहेश्वरं चापमस्ति न्यस्तं पिनाकिना ॥ १३॥

द्रक्ष्यसि त्वं महासत्त्वं पूज्यसे जनकेन च ।
इत्युक्त्वा मुनिभिस्ताभ्यां ययौ गङ्गासमीपगम् ॥ १४॥

गौतमस्याश्रमं पुण्यं यत्राहल्याऽऽस्थिता तपः ।
दिव्यपुष्पफलोपेतपादपैः परिवेष्टितम् ॥ १५॥

मृगपक्षिगणैर्हीनं नानाजन्तुविवर्जितम् ।
दृष्ट्वोवाच मुनिं श्रीमान् रामो राजीवलोचनः ॥ १६॥

कस्यैतदाश्रमपदं भाति भास्वच्छुभं महत् ।
पत्रपुष्पफलैर्युक्तं जन्तुभिः परिवर्जितम् ॥ १७॥

आह्लादयति मे चेतो भगवन् ब्रूहि तत्त्वतः ॥ १८॥

          विश्वामित्र उवाच
शृणु राम पुरा वृत्तं गौतमो लोकविश्रुतः ।
सर्वधर्मभृतां श्रेष्ठस्तपसाराधयन् हरिम् ॥ १९॥

तस्मै ब्रह्मा ददौ कन्यामहल्यां लोकसुन्दरीम् ।
ब्रह्मचर्येण सन्तुष्टः शुश्रूषणपरायणाम् ॥ २०॥

तया सार्धमिहावात्सीद्गौतमस्तपतां वरः ।
शक्रस्तु तां धर्षयितुमन्तरं प्रेप्सुरन्वहम् ॥ २१॥

कदाचिन्मुनिवेषेण गौतमे निर्गते गृहात् ।
धर्षयित्वाथ निरगात्त्वरितं मुनिरप्यगात् ॥ २२॥

दृष्ट्वा यान्तं स्वरूपेण मुनिः परमकोपनः ।
पप्रच्छ कस्त्वं दुष्टात्मन् मम रूपधरोऽधमः ॥ २३॥

सत्यं ब्रूहि न चेद्भस्म करिष्यामि न संशयः ।
सोऽब्रवीद्देवराजोऽहं पाहि मां कामकिङ्करम् ॥ २४॥

कृतं जुगुप्सितं कर्म मया कुत्सितचेतसा ।
गौतमः क्रोधताम्राक्षः शशाप दिविजाधिपम् ॥ २५॥

योनिलम्पट दुष्टात्मन् सहस्रभगवान् भव ।
शप्त्वा तं देवराजानं प्रविश्य स्वाश्रमं द्रुतम् ॥ २६॥

दृष्ट्वाहल्यां वेपमानां प्राञ्जलिं गौतमोऽब्रवीत् ।
दुष्टे त्वं तिष्ठ दुर्वृत्ते शिलायामाश्रमे मम ॥ २७॥

निराहारा दिवारात्रं तपः परममास्थिता ।
आतपानिलवर्षादिसहिष्णुः परमेश्वरम् ॥ २८॥

ध्यायन्ती राममेकाग्रमनसा हृदि संस्थितम् ।
नानाजन्तुविहीनोऽयमाश्रमो मे भविष्यति ॥ २९॥

एवं वर्षसहस्रेषु ह्यनेकेषु गतेषु च ।
रामो दाशरथिः श्रीमानागमिष्यति सानुजः ॥ ३०॥

यदा त्वदाश्रयशिलां पादाभ्यामाक्रमिष्यति ।
तदैव धूतपापा त्वं रामं सम्पूज्य भक्तितः ॥ ३१॥

परिक्रम्य नमस्कृत्य स्तुत्वा शापाद्विमोक्ष्यसे ।
पूर्ववन्मम शुश्रूषां करिष्यसि यथासुखम् ॥ ३२॥

इत्युक्त्वा गौतमः प्रागाद्धिमवन्तं नगोत्तमम् ।
तदाद्यहल्या भूतानामदृश्या स्वाश्रमे शुभे ॥ ३३॥

तव पादरजःस्पर्शं काङ्क्षते पवनाशना ।
आस्तेऽद्यापि रघुश्रेष्ठ तपो दुष्करमास्थिता ॥ ३४॥

पावयस्व मुनेर्भार्यामहल्यां ब्रह्मणः सुताम् ।
इत्युक्त्वा राघवं हस्ते गृहीत्वा मुनिपुङ्गवः ॥ ३५॥

दर्शयामास चाहल्यामुग्रेण तपसा स्थिताम् ।
रामः शिलां पदा स्पृष्ट्वा तां चापश्यत्तपोधनाम् ॥ ३६॥

ननाम राघवोऽहल्यां रामोऽहमिति चाब्रवीत् ।
ततो दृष्ट्वा रघुश्रेष्ठं पीतकौशेयवाससम् ॥ ३७॥

चतुर्भुजं शङ्खचक्रगदापङ्कजधारिणम् ।
धनुर्बाणधरं रामं लक्ष्मणेन समन्वितम् ॥ ३८॥

स्मितवक्त्रं पद्मनेत्रं श्रीवत्साङ्कितवक्षसम् ।
नीलमाणिक्यसङ्काशं द्योतयन्तं दिशो दश ॥ ३९॥

दृष्ट्वा रामं रमानाथं हर्षविस्फारितेक्षणा ।
गौतमस्य वचः स्मृत्वा ज्ञात्वा नारायणं वरम् ॥ ४०॥

सम्पूज्य विधिवद्राममर्घ्यादिभिरनिन्दिता ।
हर्षाश्रुजलनेत्रान्ता दण्डवत्प्रणिपत्य सा ॥ ४१॥

उत्थाय च पुनर्दृष्ट्वा रामं राजीवलोचनम् ।
पुलकाङ्कितसर्वाङ्गा गिरा गद्गदयैडत ॥ ४२॥

          अहल्योवाच
अहो कृतार्थास्मि जगन्निवास ते
            पादाब्जसंलग्नरजःकणादहम् ।
स्पृशामि यत्पद्मजशङ्करादिभि-
      र्विमृग्यते रन्धितमानसैः सदा ॥ ४३॥

अहो विचित्रं तव राम चेष्टितं
      मनुष्यभावेन विमोहितं जगत् ।
चलस्यजस्रं चरणादिवर्जितः
      सम्पूर्ण आनन्दमयोऽतिमायिकः ॥ ४४॥

यत्पादपङ्कजपरागपवित्रगात्रा
      भागीरथी भवविरिञ्चिमुखान् पुनाति ।
साक्षात्स एव मम दृग्विषयो यदास्ते
      किं वर्ण्यते मम पुराकृतभागधेयम् ॥ ४५॥

मर्त्यावतारे मनुजाकृतिं हरिं
      रामाभिधेयं रमणीयदेहिनम् ।
धनुर्धरं पद्मविशाललोचनं
      भजामि नित्यं न परान् भजिष्ये ॥ ४६॥

यत्पादपङ्कजरजः श्रुतिभिर्विमृग्यं
      यन्नाभिपङ्कजभवः कमलासनश्च ।
यन्नामसाररसिको भगवान् पुरारिस्तं
      रामचन्द्रमनिशं हृदि भावयामि ॥ ४७॥

यस्यावतारचरितानि विरिञ्चिलोके
      गायन्ति नारदमुखा भवपद्मजाद्याः ।
आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा
      वागीश्वरी च तमहं शरणं प्रपद्ये ॥ ४८॥

सोऽयं परात्मा पुरुषः पुराण
      एकः स्वयञ्ज्योतिरनन्त आद्यः ।
मायातनुं लोकविमोहनीयां
      धत्ते परानुग्रह एष रामः ॥ ४९॥

अयं हि विश्वोद्भवसंयमानामेकः
      स्वमायागुणबिम्बितो यः ।
विरिञ्चिविष्ण्वीश्वरनामभेदान्
      धत्ते स्वतन्त्रः परिपूर्ण आत्मा ॥ ५०॥

नमोऽस्तु ते राम तवाङ्घ्रिपङ्कजं
      श्रिया धृतं वक्षसि लालितं प्रियात् ।
आक्रान्तमेकेन जगत्त्रयं पुरा
      ध्येयं मुनीन्द्रैरभिमानवर्जितैः ॥ ५१॥

जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रयः ।
सर्वभूतेष्वसंयुक्त एको भाति भवान् परः ॥ ५२॥

ओङ्कारवाच्यस्त्वं राम वाचामविषयः पुमान् ।
वाच्यवाचकभेदेन भवानेव जगन्मयः ॥ ५३॥

कार्यकारणकर्तृत्वफलसाधनभेदतः ।
एको विभासि राम त्वं मायया बहुरूपया ॥ ५४॥

त्वन्मायामोहितधियस्त्वां न जानन्ति तत्त्वतः ।
मानुषं त्वाभिमन्यन्ते मायिनं परमेश्वरम् ॥ ५५॥

आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमलः ।
असङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥ ५६॥

योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो ।
तस्मात्ते शतशो राम नमस्कुर्यामनन्यधीः ॥ ५७॥

देव मे यत्र कुत्रापि स्थिताया अपि सर्वदा ।
त्वत्पादकमले सक्ता भक्तिरेव सदास्तु मे ॥ ५८॥

नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल ।
नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तुते ॥ ५९॥

भवभयहरमेकं भानुकोटिप्रकाशं
      करधृतशरचापं कालमेघावभासम् ।
कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं
      कमलविशदनेत्रं सानुजं राममीडे ॥ ६०॥

स्तुत्वैवं पुरुषं साक्षाद्राघवं पुरतः स्थितम् ।
परिक्रम्य प्रणम्याशु साऽनुज्ञाता ययौ पतिम् ॥ ६१॥

अहल्यया कृतं स्तोत्रं यः पठेद्भक्तिसंयुतः ।
स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥ ६२॥

पुत्राद्यर्थे पठेद्भक्त्या रामं हृदि निधाय च ।
संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् ॥ ६३॥

सर्वान् कामानवाप्नोति रामचन्द्रप्रसादतः ॥ ६४॥

ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा
   मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः ।
नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या हृदिस्थं स्मरन्
   ध्यायन्मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः ॥ ६५॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे
 अहल्योद्धरणं नाम पञ्चमः सर्गः ॥ ५॥


॥ षष्ठः सर्गः ॥
विश्वामित्रोऽथ तं प्राह राघवं सहलक्ष्मणम् ।
गच्छामो वत्स मिथिलां जनकेनाभिपालिताम् ॥ १॥

दृष्ट्वा क्रतुवरं पश्चादयोध्यां गन्तुमर्हसि ।
इत्युक्त्वा प्रययौ गङ्गामुत्तर्तुं सहराघवः ।
तस्मिन् काले नाविकेन निषिद्धो रघुनन्दनः ॥ २॥

          नाविक उवाच
क्षालयामि तव पादपङ्कजं
       नाथ दारुदृषदोः किमन्तरम् ।
मानुषीकरणचूर्णमस्ति ते
       पादयोरिति कथा प्रथीयसी ॥ ३॥

पादाम्बुजं ते विमलं हि कृत्वा
       पश्चात्परं तीरमहं नयामि ।
नो चेत्तरी सद्युवती मलेन
       स्याच्चेद्विभो विद्धि कुटुम्बहानिः ॥ ४॥

इत्युक्त्वा क्षालितौ पादौ परं तीरं ततो गताः ।
कौशिको रघुनाथेन सहितो मिथिलां ययौ ॥ ५॥

विदेहस्य पुरं प्रातरृषिवाटं समाविशत् ।
प्राप्तं कौशिकमाकर्ण्य जनकोऽतिमुदान्वितः ॥ ६॥

पूजाद्रव्याणि सङ्गृह्य सोपाध्यायः समाययौ ।
दण्डवत्प्रणिपत्याथ पूजयामास कौशिकम् ॥ ७॥

पप्रच्छ राघवौ दृष्ट्वा सर्वलक्षणसंयुतौ ।
द्योतयन्तौ दिशः सर्वाश्चन्द्रसूर्याविवापरौ ॥ ८॥

कस्यैतौ नरशार्दूलौ पुत्रौ देवसुतोपमौ ।
मनःप्रीतिकरौ मेऽद्य नरनारायणाविव ॥ ९॥

प्रत्युवाच मुनिः प्रीतो हर्षयन् जनकं तदा ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ १०॥

मखसंरक्षणार्थाय मयानीतौ पितुः पुरात् ।
आगच्छन् राघवो मार्गे ताटकां विश्वघातिनीम् ॥ ११॥

शरेणैकेन हतवान्नोदितो मेऽतिविक्रमः ।
ततो ममाश्रमं गत्वा मम यज्ञविहिंसकान् ॥ १२॥

सुबाहुप्रमुखान् हत्वा मारीचं सागरेऽक्षिपत् ।
ततो गङ्गातटे पुण्ये गौतमस्याश्रमं शुभम् ॥ १३॥

गत्वा तत्र शिलारूपा गौतमस्य वधूः स्थिता ।
पादपङ्कजसंस्पर्शात्कृता मानुषरूपिणी ॥ १४॥

दृष्ट्वाहल्यां नमस्कृत्य तया सम्यक्प्रपूजितः ।
इदानीं द्रष्टुकामस्ते गृहे माहेश्वरं धनुः ॥ १५॥

पूजितं राजभिः सर्वैर्दृष्टमित्यनुशुश्रुवे ।
अतो दर्शय राजेन्द्र शैवं चापमनुत्तमम् ।
दृष्ट्वायोध्यां जिगमिषुः पितरं द्रष्टुमिच्छति ॥ १६॥

इत्युक्तो मुनिना राजा पूजार्हाविति पूजया ।
पूजयामास धर्मज्ञो विधिदृष्टेन कर्मणा ।
ततः सम्प्रेषयामास मन्त्रिणं बुद्धिमत्तरम् ॥ १७॥

     जनक उवाच
शीघ्रमानय विश्वेशचापं रामाय दर्शय ॥ १८॥

ततो गते मन्त्रिवरे राजा कौशिकमब्रवीत् ।
यदि रामो धनुर्धृत्वा कोट्यामारोपयेद्गुणम् ॥ १९॥

तदा मयात्मजा सीता दीयते राघवाय हि ।
तथेति कौशिकोऽप्याह रामं संवीक्ष्य सस्मितम् ॥ २०॥

शीघ्रं दर्शय चापाग्र्यं रामायामिततेजसे ।
एवं ब्रुवति मौनीशे आगताश्चापवाहकाः ॥ २१॥

चापं गृहीत्वा बलिनः पञ्चसाहस्रसङ्ख्यकाः ।
घण्टाशतसमायुक्तं मणिवज्रादिभूषितम् ॥ २२॥

दर्शयामास रामाय मन्त्री मन्त्रयतां वरः ।
दृष्ट्वा रामः प्रहृष्टात्मा बद्ध्वा परिकरं दृढम् ॥ २३॥

गृहीत्वा वामहस्तेन लीलया तोलयन् धनुः ।
आरोपयामास गुणं पश्यत्स्वखिलराजसु ॥ २४॥

ईषदाकर्षयामास पाणिना दक्षिणेन सः ।
बभञ्जाखिलहृत्सारो दिशः शब्देन पूरयन् ॥ २५॥

दिशश्च विदिशश्चैव स्वर्गं मर्त्यं रसातलम् ।
तदद्भुतमभूत्तत्र देवानां दिवि पश्यताम् ॥ २६॥

आच्छादयन्तः कुसुमैर्देवाः स्तुतिभिरीडिरे ।
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः ॥ २७॥

द्विधा भग्नं धनुर्दृष्ट्वा राजालिङ्ग्य रघूद्वहम् ।
विस्मयं लेभिरे सीतामातरोऽन्तःपुराजिरे ॥ २८॥

सीता स्वर्णमयीं मालां गृहीत्वा दक्षिणे करे ।
स्मितवक्त्रा स्वर्णवर्णा सर्वाभरणभूषिता ॥ २९॥

मुक्ताहारैः कर्णपत्रैः क्वणच्चरणनूपुरा ।
दुकूलपरिसंवीता वस्त्रान्तर्व्यञ्जितस्तनी ॥ ३०॥

रामस्योपरि निक्षिप्य स्मयमाना मुदं ययौ ।
ततो मुमुदिरे सर्वे राजदाराः स्वलङ्कृतम् ॥ ३१॥

गवाक्षजालरन्ध्रेभ्यो दृष्ट्वा लोकविमोहनम् ।
ततोऽब्रवीन्मुनिं राजा सर्वशास्त्रविशारदः ॥ ३२॥

भो कौशिक मुनिश्रेष्ठ पत्रं प्रेषय सत्वरम् ।
राजा दशरथः शीघ्रमागच्छतु सपुत्रकः ॥ ३३।
विवाहार्थं कुमाराणां सदारः सहमन्त्रिभिः ।
तथेति प्रेषयामास दूतान्स्त्वरितविक्रमान् ॥ ३४॥

ते गत्वा राजशार्दूलं रामश्रेयो न्यवेदयन् ।
श्रुत्वा रामकृतं राजा हर्षेण महताप्लुतः ॥ ३५॥

मिथिलागमनार्थाय त्वरयामास मन्त्रिभिः ।
गच्छन्तु मिथिलां सर्वे गजाश्वरथपत्तयः ॥ ३६॥

रथमानय मे शीघ्रं गच्छाम्यद्यैव मा चिरम् ।
वसिष्ठस्त्वग्रतो यातु सदारः सहितोऽग्निभिः ॥ ३७॥

राममातॄः समादाय मुनिर्मे भगवान् गुरुः ।
एवं प्रस्थाप्य सकलं राजर्षिर्विपुलं रथम् ॥ ३८॥

महत्या सेनया सार्धमारुह्य त्वरितो ययौ ।
आगतं राघवं श्रुत्वा राजा हर्षसमाकुलः ॥ ३९॥

प्रत्युज्जगाम जनकः शतानन्दपुरोधसा ।
यथोक्तपूजया पूज्यं पूजयामास सत्कृतम् ॥ ४०॥

रामस्तु लक्ष्मणेनाशु ववन्दे चरणौ पितुः ।
ततो हृष्टो दशरथो रामं वचनमब्रवीत् ॥ ४१॥

दिष्ट्या पश्यामि ते राम मुखं फुल्लाम्बुजोपमम् ।
मुनेरनुग्रहात्सर्वं सम्पन्नं मम शोभनम् ॥ ४२॥

इत्युक्त्वाघ्राय मूर्धानमालिङ्ग्य च पुनः पुनः ।
हर्षेण महताविष्टो ब्रह्मानन्दं गतो यथा ॥ ४३॥

ततो जनकराजेन मन्दिरे सन्निवेशितः ।
शोभने सर्वभोगाढ्ये सदारः ससुतः सुखी ॥ ४४॥

ततः शुभे दिने लग्ने सुमुहूर्ते रघूत्तमम् ।
आनयामास धर्मज्ञो रामं सभ्रातृकं तदा ॥ ४५॥

रत्नस्तम्भसुविस्तारे सुविताने सुतोरणे ।
मण्डपे सर्वशोभाढ्ये मुक्तापुष्पफलान्विते ॥ ४६॥

वेदविद्भिः सुसम्बाधे ब्राह्मणैः स्वर्णभूषितैः ।
सुवासिनीभिः परितो निष्ककण्ठीभिरावृते ॥ ४७॥

भेरीदुन्दुभिनिर्घोषैर्गीतनृत्यैः समाकुले ।
दिव्यरत्नाञ्चिते स्वर्णपीठे रामं न्यवेशयत् ॥ ४८॥

वसिष्ठं कौशिकं चैव शतानन्दः पुरोहितः ।
यथाक्रमं पूजयित्वा रामस्योभयपार्श्वयोः ॥ ४९॥

स्थापयित्वा स तत्राग्निं ज्वालयित्वा यथाविधि ।
सीतामानीय शोभाढ्यां नानारत्नविभूषिताम् ॥ ५०॥

सभार्यो जनकः प्रायाद्रामं राजीवलोचनम् ।
पादौ प्रक्षाल्य विधिवत्तदपो मूर्ध्न्यधारयत् ॥ ५१॥

या धृता मूर्ध्नि शर्वेण ब्रह्मणा मुनिभिः सदा ।
ततः सीतां करे धृत्वा साक्षतोदकपूर्वकम् ॥ ५२॥

रामाय प्रददौ प्रीत्या पाणिग्रहविधानतः ।
सीता कमलपत्राक्षी स्वर्णमुक्तादिभूषिता ॥ ५३॥

दीयते मे सुता तुभ्यं प्रीतो भव रघूत्तम ।
इति प्रीतेन मनसा सीतां रामकरेऽर्पयन् ॥ ५४॥

मुमोद जनको लक्ष्मीं क्षीराब्धिरिव विष्णवे ।
उर्मिलां चौरसीं कन्यां लक्ष्मणाय ददौ मुदा ॥ ५५॥

तथैव श्रुतिकीर्तिं च माण्डवीं भ्रातृकन्यके ।
भरताय ददावेकां शत्रुघ्नायापरां ददौ ॥ ५६॥

चत्वारो दारसम्पन्ना भ्रातरः शुभलक्षणाः ।
विरेजुः प्रजया सर्वे लोकपाला इवापरे ॥ ५७॥

ततोऽब्रवीद्वसिष्ठाय विश्वामित्राय मैथिलः ।
जनकः स्वसुतोदन्तं नारदेनाभिभाषितम् ॥ ५८॥

यज्ञभूमिविशुद्ध्यर्थं कर्षतो लाङ्गलेन मे ।
सीतामुखात्समुत्पन्ना कन्यका शुभलक्षणा ॥ ५९॥

तामद्राक्षमहं प्रीत्या पुत्रिकाभावभाविताम् ।
अर्पिता प्रियभार्यायै शरच्चन्द्रनिभानना ॥ ६०॥

एकदा नारदोऽभ्यागाद्विविक्ते मयि संस्थिते ।
रणयन्महतीम् वीणां गायन्नारायणं विभुम् ॥ ६१॥

पूजितः सुखमासीनो मामुवाच सुखान्वितः ।
शृणुष्व वचनं गुह्यं तवाभ्युदयकारणम् ॥ ६२॥

परमात्मा हृषीकेशो भक्तानुग्रहकाम्यया ।
देवकार्यार्थसिद्ध्यर्थं रावणस्य वधाय च ॥ ६३॥

जातो राम इति ख्यातो मायामानुषवेषधृक् ।
आस्ते दाशरथिर्भूत्वा चतुर्धा परमेश्वरः ॥ ६४॥

योगमायाऽपि सीतेति जाता वै तव वेश्मनि ।
अतस्त्वं राघवायैव देहि सीतां प्रयत्नतः ॥ ६५॥

नान्येभ्यः पूर्वभार्यैषा रामस्य परमात्मनः ।
इत्युक्त्वा प्रययौ देवगतिं देवमुनिस्तदा ॥ ६६॥

तदारभ्य मया सीता विष्णोर्लक्ष्मीर्विभाव्यते ।
कथं मया राघवाय दीयते जानकी शुभा ॥ ६७॥

इति चिन्तासमाविष्टः कार्यमेकमचिन्तयम् ।
मत्पितामहगेहे तु न्यासभूतमिदं धनुः ॥ ६८॥

ईश्वरेण पुरा क्षिप्तं पुरदाहादनन्तरम् ।
धनुरेतत्पणं कार्यमिति चिन्त्य कृतं तथा ॥ ६९॥

सीतापाणिग्रहार्थाय सर्वेषां माननाशनम् ।
त्वत्प्रसादान्मुनिश्रेष्ठ रामो राजीवलोचनः ॥ ७०॥

आगतोऽत्र धनुर्द्रष्टुं फलितो मे मनोरथः ।
अद्य मे सफलं जन्म राम त्वां सह सीतया ॥ ७१॥

एकासनस्थं पश्यामि भ्राजमानं रविं यथा ॥ ७२॥

त्वत्पादाम्बुधरो ब्रह्मा सृष्टिचक्रप्रवर्तकः ।
बलिस्त्वत्पादसलिलं धृत्वाभूद्दिविजाधिपः ॥ ७३॥

त्वत्पादपांसुसंस्पर्शादहल्या भर्तृशापतः ।
सद्य एव विनिर्मुक्ता कोऽन्यस्त्वत्तोऽधिरक्षिता ॥ ७४॥

यत्पादपङ्कजपरागसुरागयोगि-
       वृन्दैर्जितम्भवभयं जितकालचक्रैः ।
यन्नामकीर्तनपरा जितदुःखशोका
       देवास्तमेव शरणं सततं प्रपद्ये ॥ ७५॥

इति स्तुत्वा नृपः प्रादाद्राघवाय महात्मने ।
दीनाराणां कोटिशतं रथानामयुतं तदा ॥ ७६॥

अश्वानां नियुतं प्रादाद्गजानां षट्शतं तथा ।
पत्तीनां लक्षमेकं तु दासीनां त्रिशतं ददौ ॥ ७७॥

दिव्याम्बराणि हारान्श्च मुक्तारत्नमयोज्ज्वलान् ।
सीतायै जनकः प्रादात्प्रीत्या दुहितृवत्सलः ॥ ७८॥

वसिष्ठादीन् सुसम्पूज्य भरतं लक्ष्मणं तथा ।
पूजयित्वा यथान्यायं तथा दशरथं नृपम् ॥ ७९॥

प्रस्थापयामास नृपो राजानं रघुसत्तमम् ।
सीतामालिङ्ग्य रुदतीं मातरः साश्रुलोचनाः ॥ ८०॥

श्वश्रूशुश्रूषणपरा नित्यं राममनुव्रता ।
पातिव्रत्यमुपालम्ब्य तिष्ठ वत्से यथा सुखम् ॥ ८१॥

प्रयाणकाले रघुनन्दनस्य भेरीमृदङ्गानकतूर्यघोषः ।
स्वर्वासिभेरीघनतूर्यशब्दैः संमूर्च्छितो भूतभयङ्करोऽभूत् ॥ ८२॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे
   बालकाण्डे षष्ठः सर्गः ॥ ६॥


॥ सप्तमः सर्गः ॥
अथ गच्छति श्रीरामे मैथिलाद्योजनत्रयम् ।
निमित्तान्यतिघोराणि ददर्श नृपसत्तमः ॥ १॥

नत्वा वसिष्ठं पप्रच्छ किमिदं मुनिपुङ्गव ।
निमित्तानीह दृश्यन्ते विषमाणि समन्ततः ॥ २॥

वसिष्ठस्तमथ प्राह भयमागामि सूच्यते ।
पुनरप्यभयं तेऽद्य शीघ्रमेव भविष्यति ॥ ३॥

मृगाः प्रदक्षिणं यान्ति पश्य त्वां शुभसूचकाः ।
इत्येवं वदतस्तस्य ववौ घोरतरोऽनिलः ॥ ४॥

मुष्णन्श्चक्षूंषि सर्वेषां पांसुवृष्टिभिरर्दयन् ।
ततो व्रजन् ददर्शाग्रे तेजोराशिमुपस्थितम् ॥ ५॥

कोटिसूर्यप्रतीकाशं विद्युत्पुञ्जसमप्रभम् ।
तेजोराशिं ददर्शाथ जामदग्न्यं प्रतापवान् ॥ ६॥

नीलमेघनिभं प्रांशुं जटामण्डलमण्डितम् ।
धनुः परशुपाणिं च साक्षात्कालमिवान्तकम् ॥ ७॥

कार्तवीर्यान्तकं रामं दृप्तक्षत्रियमर्दनम् ।
प्राप्तं दशरथस्याग्रे कालमृत्युमिवापरम् ॥ ८॥

तं दृष्ट्वा भयसन्त्रस्तो राजा दशरथस्तदा ।
अर्घ्यादिपूजां विस्मृत्य त्राहि त्राहीति चाब्रवीत् ॥ ९॥

दण्डवत्प्रणिपत्याह पुत्रप्राणं प्रयच्छ मे ।
इति ब्रुवन्तं राजानमनादृत्य रघूत्तमम् ॥ १०॥

उवाच निष्ठुरं वाक्यं क्रोधात्प्रचलितेन्द्रियः ।
त्वं राम इति नाम्ना मे चरसि क्षत्रियाधम ॥ ११॥

द्वन्द्वयुद्धं प्रयच्छाशु यदि त्वं क्षत्रियोऽसि वै ।
पुराणं जर्जरं चापं भङ्क्त्वा त्वं कत्थसे मुधा ॥ १२॥

अस्मिन्स्तु वैष्णवे चापे आरोपयसि चेद्गुणम् ।
तदा युद्धं त्वया सार्धं करोमि रघुवंशज ॥ १३॥

नो चेत्सर्वान् हनिष्यामि क्षत्रियान्तकरो ह्यहम् ।
इति ब्रुवति वै तस्मिन्श्चचाल वसुधा भृशम् ॥ १४॥

अन्धकारो बभूवाथ सर्वेषामपि चक्षुषाम् ।
रामो दाशरथिर्वीरो वीक्ष्य तं भार्गवं रुषा ॥ १५॥

धनुराच्छिद्य तद्धस्तादारोप्य गुणमञ्जसा ।
तूणीराद्बाणमादाय सन्धायाकृष्य वीर्यवान् ॥ १६॥

उवाच भार्गवं रामं शृणु ब्रह्मन् वचो मम ।
लक्ष्यं दर्शय बाणस्य ह्यमोघो मम सायकः ॥ १७॥

 लोकान् पादयुगं वापि वद शीघ्रं ममाज्ञया ।
अयं लोकः परो वाथ त्वया गन्तुं न शक्यते ॥ १८॥

एवं त्वं हि प्रकर्तव्यं वद शीघ्रं ममाज्ञया ।
एवं वदति श्रीरामे भार्गवो विकृताननः ॥ १९॥

संस्मरन् पूर्ववृत्तान्तमिदं वचनमब्रवीत् ।
राम राम महाबाहो जाने त्वां परमेश्वरम् ॥ २०॥

पुराणपुरुषं विष्णुं जगत्सर्गलयोद्भवम् ।
बाल्येऽहं तपसा विष्णुमाराधयितुमञ्जसा ॥ २१॥

चक्रतीर्थं शुभं गत्वा तपसा विष्णुमन्वहम् ।
अतोषयं महात्मानं नारायणमनन्यधीः ॥ २२॥

ततः प्रसन्नो देवेशः शङ्खचक्रगदाधरः ।
उवाच मां रघुश्रेष्ठ प्रसन्नमुखपङ्कजः ॥ २३॥

          श्रीभगवानुवाच
उत्तिष्ठ तपसो ब्रह्मन् फलितं ते तपो महत् ।
मच्चिदंशेन युक्तस्त्वं जहि हैहयपुङ्गवम् ॥ २४॥

कार्तवीर्यं पितृहणं यदर्थं तपसः श्रमः ।
ततस्त्रिःसप्तकृत्वस्त्वं हत्वा क्षत्रियमण्डलम् ॥ २५॥

कृत्स्नां भूमिं कश्यपाय दत्त्वा शान्तिमुपावह ।
त्रेतामुखे दाशरथिर्भूत्वा रामोऽहमव्ययः ॥ २६॥

उत्पत्स्ये परया शक्त्या तदा द्रक्ष्यसि मां ततः ।
मत्तेजः पुनरादास्ये त्वयि दत्तं मया पुरा ॥ २७॥

तदा तपश्चरन्ल्लोके तिष्ठ त्वं ब्रह्मणो दिनम् ।
इत्युक्त्वान्तर्दधे देवस्तथा सर्वं कृतं मया ॥ २८॥

स एव विष्णुस्त्वं राम जातोऽसि ब्रह्मणार्थितः ।
मयि स्थितं तु त्वत्तेजस्त्वयैव पुनराहृतम् ॥ २९॥

अद्य मे सफलं जन्म प्रतीतोऽसि मम प्रभो ।
ब्रह्मादिभिरलभ्यस्त्वं प्रकृतेः पारगो मतः ॥ ३०॥

त्वयि जन्मादिषड्भावा न सन्त्यज्ञानसम्भवाः ।
निर्विकारोऽसि पूर्णस्त्वं गमनादिविवर्जितः ॥ ३१॥

यथा जले फेनजालं धूमो वह्नौ तथा त्वयि ।
त्वदाधारा त्वद्विषया माया कार्यं सृजत्यहो ॥ ३२॥

यावन्मायावृता लोकास्तावत्त्वां न विजानते ।
अविचारितसिद्धैषाऽविद्या विद्याविरोधिनी ॥ ३३॥

अविद्याकृतदेहादिसङ्घाते प्रतिबिम्बिता ।
चिच्छक्तिर्जीवलोकेऽस्मिन् जीव इत्यभिधीयते ॥ ३४॥

यावद्देहमनःप्राणबुद्ध्यादिष्वभिमानवान् ।
तावत्कर्तृत्वभोक्तृत्वसुखदुःखादिभाग्भवेत् ॥ ३५॥

आत्मनःसंसृतिर्नास्ति बुद्धेर्ज्ञानं न जात्विति ।
अविवेकाद्द्वयं युङ्क्त्वा संसारीति प्रवर्तते ॥ ३६॥

जडस्य चित्समायोगाच्चित्त्वं भूयाच्चितेस्तथा ।
जडसङ्गाज्जडत्वं हि जलाग्न्योर्मेलनं यथा ॥ ३७॥

यावत्त्वत्पादभक्तानां सङ्गसौख्यं न विन्दति ।
तावत्संसारदुःखौघान्न निवर्तेन्नरः सदा ॥ ३८॥

तत्सङ्गलब्धया भक्त्या यदा त्वां समुपासते ।
तदा माया शनैर्याति तानवं प्रतिपद्यते ॥ ३९॥

ततस्त्वज्ज्ञानसम्पन्नः सद्गुरुस्तेन लभ्यते ।
वाक्यज्ञानं गुरोर्लब्ध्वा त्वत्प्रसादाद्विमुच्यते ॥ ४०॥

तस्मात्त्वद्भक्तिहीनानां कल्पकोटिशतैरपि ।
न मुक्तिशङ्का विज्ञानशङ्का नैव सुखं तथा ॥ ४१॥

अतस्त्वत्पादयुगले भक्तिर्मे जन्मजन्मनि ।
स्यात्त्वद्भक्तिमतां सङ्गोऽविद्या याभ्यां विनश्यति ॥ ४२॥

लोके त्वद्भक्तिनिरतास्त्वद्धर्मामृतवर्षिणः ।
पुनन्ति लोकमखिलं किं पुनः स्वकुलोद्भवान् ॥ ४३॥

नमोऽस्तु जगतां नाथ नमस्ते भक्तिभावन ।
नमः कारुणिकानन्त रामचन्द्र नमोऽस्तु ते ॥ ४४॥

देव यद्यत्कृतं पुण्यं मया लोकजिगीषया ।
तत्सर्वं तव बाणाय भूयाद्राम नमोऽस्तु ते ॥ ४५॥

ततः प्रसन्नो भगवान् श्रीरामः करुणामयः ।
प्रसन्नोऽस्मि तव ब्रह्मन् यत्ते मनसि वर्तते ॥ ४६॥

दास्ये तदखिलं कामं मा कुरुष्वात्र संशयम् ।
ततः प्रीतेन मनसा भार्गवो राममब्रवीत् ॥ ४७॥

यदि मेऽनुग्रहो राम तवास्ति मधुसूदन ।
त्वद्भक्तसङ्गस्त्वत्पादे दृढा भक्तिः सदास्तु मे ॥ ४८॥

स्तोत्रमेतत्पठेद्यस्तु भक्तिहीनोऽपि सर्वदा ।
त्वद्भक्तिस्तस्य विज्ञानं भूयादन्ते स्मृतिस्तव ॥ ४९॥

तथेति राघवेणोक्तः परिक्रम्य प्रणम्य तम् ।
पूजितस्तदनुज्ञातो महेन्द्राचलमन्वगात् ॥ ५०॥

राजा दशरथो हृष्टो रामं मृतमिवागतम् ।
आलिङ्ग्यालिङ्ग्य हर्षेण नेत्राभ्यां जलमुत्सृजत् ॥ ५१॥

ततः प्रीतेन मनसा स्वस्थचित्तः पुरं ययौ ।
रामलक्ष्मणशत्रुघ्नभरता देवसंमिताः ॥ ५२॥

स्वां स्वां भार्यामुपादाय रेमिरे स्वस्वमन्दिरे ।
मातापितृभ्यां संहृष्टो रामः सीतासमन्वितः ।
रेमे वैकुण्ठभवने श्रिया सह यथा हरिः ॥ ५३॥

युधाजिन्नाम कैकेयीभ्राता भरतमातुलः ।
भरतं नेतुमागच्छत्स्वराज्यं प्रीतिसंयुतः ॥ ५४॥

प्रेषयामास भरतं राजा स्नेहसमन्वितः ।
शत्रुघ्नं चापि सम्पूज्य युधाजितमरिन्दमः ॥ ५५॥

कौसल्या शुशुभे देवी रामेण सह सीतया ।
देवमातेव पौलोम्या शच्या शक्रेण शोभना ॥ ५६॥

साकेते लोकनाथप्रथितगुणगणो लोकसङ्गीतकीर्तिः
    श्रीरामः सीतयास्तेऽखिलजननिकरानन्दसन्दोहमूर्तिः ।
नित्यश्रीर्निर्विकारो निरवधिविभवो नित्यमायानिरासो
       मायाकार्यानुसारी मनुज इव सदा भाति देवोऽखिलेशः ॥ ५७॥

इति श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे बालकाण्डे सप्तमः सर्गः ॥ ७॥ समाप्तोऽयं बालकाण्डः ।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here