līlāśuka viracitam śrī kṛṣṇa karṇāmṛtam. श्री कृष्ण कर्णामृतम् ।। Sevashram Sansthanam.

0
67

श्री लीलाशुक विरचितं श्री कृष्ण कर्णामृतं अथ तृतीयोध्यायम् – तृतीय शतकम् ।। Sevashram Sansthanam.

अस्ति स्वस्त्ययनम् समस्तजगताम् अभ्यस्तलक्ष्मीस्तनम्,
वस्तु ध्वस्तरजस्तमोभिर् अनिशम् न्यस्तम् पुरस्तादिव।
हस्तोदस्तगिरीन्द्रमस्तकतरुप्रस्तारविस्तारित,
स्रस्तस्वस्तरुसूनसंस्तरलसत्प्रस्तानिराधास्तुतम्॥ ३-१

राधाराधितविभ्रमाद्भुतरसम् लावण्यरत्नाकरम्
साधारण्यपदव्यतीतसहजस्मेराननाम्भोरुहम्।
आलम्बे हरिनीलगर्वगुरुतासर्वस्वनिर्वापणम्
बालम् वैणविकम् विमुग्धमधुरम् मूर्धाभिषिक्तम् महः॥ ३-२

करिणाम् अलङ्घ्यगतिवैभवम् भजे, करुणावलम्बितकिशोरविग्रहम्।
यमिनाम् अनारतविहारि मानसे, यमुनवनान्तरसिकम् परम् महः॥ ३-३

अतन्त्रितत्रिजगदपि व्रजाङ्गना नियन्त्रितम् विपुलविलोचनाज्ञया।
निरन्तरम् मम हृदये विजृम्भताम् समन्ततः सरसतरम् परम् महः॥ ३-४

कन्दर्पप्रतिमल्लकान्तिविभवम् कादम्बिनीबान्धवम्
बृन्दारण्यविलासिनीव्यसनिनम् वेषेण भूषामयम्।
मन्दस्मेरमुखाम्बुजम् मधुर्मव्यामृष्टबिम्बाधरम्
वन्दे कन्दलितार्द्रयौवनरसम् कैशोरकम् शार्ङ्गिणः॥ ३-५

आमुक्तमानुषममुक्तनिजानुभाव, मरूढयौवनम् अगूढविदग्धलीलम्।
आमृष्टयौवनम् अनष्टकिशोरभाव, माद्यम् महः कम् अपि माद्यति मानसे मे॥ ३-६

ते ते भावास्सकलजगतीलोभनीयप्रभावाः
नानातृष्णासुहृदि हृदि मे कामम् आविर्भवन्तु।
वीणावेणुक्वणितलसितस्मेरवक्त्रारविन्दा
न्नाहम् जाने मधुरमपरम् नन्दपुण्याम्बुराशेः॥ ३-७

सुकृतिभिरादृते सरसवेणुनिनादसुधा, रसलहरीविहारनिरवग्रहकर्णपुटे।
व्रजवरसुन्दरीमुखसरोरुहस्य रसिके, महसि कदा नु मज्जति मदीयमिदम् हृदयम्॥ ३-८

तृष्णातुरे चेतसि जृम्भमानम् मुष्णन् मुहुर् मोहान्धकारम्।
पुष्णातु नः पुण्यदयैकसिन्धोः कृष्णस्य कारुण्यकटाक्षकेलिः॥ ३-९

निखिलनिगममौलिलालितम् पदकमलम् परमस्य तेजसः
व्रजभुवि बहुमन्महेतराम् सरसकरीषविशेषभूषितम्॥ ३-१०

उदारमृदुलस्मितव्यतिकराभिरामाननम् , मुदा मुहुरुदीर्णया मुनिमनोऽम्बुजाम्रेडितम्।
मदालसविलोचनव्रजवधूमुखास्वादितम् , कदा नु कमलेक्षणम् कम् अपि बालम् आलोकये॥ ३-११

व्रजजनमदयोषिल्लोचनोच्छिष्टशेषी
कृतम् अतिचपलाभ्याम् लोचनाभ्याम् उभाभ्याम्।
सकृदपि परिपातुम् ते वयम् पारयामः
कुवलयदलनीलम् कान्तिपुरम् कदा नु॥ ३-१२

घोषयोषिदनुगीतयौवनम् कोमलस्तनितवेणुनिस्वनम्।
सारभूतम् अभिरामसम्पदाम् धामतामरसलोचनम् भजे॥ ३-१३

लीलया ललितयाऽवलम्बितम् मूलगेहम् इव मूर्तिसम्पदाम्।
नीलनीरदविकासविभ्रमम् बालम् एव वयम् आद्रियामहे॥ ३-१४

वन्दे मुरारेश्चरणारविन्द द्वन्द्वम् दयादर्शितशैशवस्य।
वन्दारुवृन्दारकवृन्दमौलि मन्दारमालाविनिमर्दभीरु॥ ३-१५

यस्मिन् नृत्यति यस्य शेखरभरैः क्रौञ्चद्विषश्चन्द्रकी
यस्मिन् दृप्यति यस्य घोषसुरभिम् जिघ्रन् वृषोर् धूर्जटैः।
यस्मिन् सज्जति यस्य विभ्रमगतिम् वाङ्चन् हरेः सिन्धुर
स्तद् वृन्दावनकल्पकद्रुमवनम् तम् वा किशोरम् भजे॥ ३-१६

अरुणाधरामृतविशेषितस्मितम् वरुणालयानुगतवर्णवैभवम्।
तरुणारविन्ददलदीर्घलोचनम् करुणामयम् कम् अपि बालम् आश्रये॥ ३-१७

लावण्यवीचीरचिताङ्गभूषाम् भूषापदारोपितपुण्यबर्हाम्।
कारुण्यधारालकटाक्षमालाम् बालाम् भजे वल्लववंशलक्ष्मीम्॥ ३-१८

मधुरैकरसम् वपुर्विभो र्मथुरावीथिचरम् भजामहे।
नगरीम्ईगशाबलोचना नयनेन्दीवरवर्षवर्षितम्॥ ३-१९

पर्याकुलेन नयनान्तविजृम्भितेन वक्त्रेण कोमलदरस्मितविभ्रमेण।
मन्द्रेण मञ्जुलतरेण च जल्पितेन नन्दस्य हन्त तनये हृदयम् धिनोति॥ ३-२०

कन्दर्पकण्डूलकटाक्षबन्दी रिन्दीवराक्षीरभिलाषमाणान्।
मन्दस्मिताधारमुखारविन्दान् वन्दामहे वल्लवधूर्तपादान्॥ ३-२१

लीलाटोपकटाक्षनिर्भरपरिष्वङ्गप्रसङ्गाधिक
प्रीते गीतिविभङ्गसङ्करलसद्वेणुप्रणादामृते।
राधालोचनलालितस्य ललितस्मेरे मुरारेर्मुदा
माधुर्यैकरसे मुखेन्दुकमले मग्नम् मदीयम् मनः॥ ३-२२

शरणागतवज्रपङ्जरे शरणे शार्ङ्गधरस्य वैभवे।
कृपया धृतगोपविग्रहे कियदन्यन्मृगयामहे वयम्॥ ३-२३

जगत्त्रयैकान्तमनोज्ञभूमि चेतस्यजस्रम् मम सन्निधत्ताम्।
रमासमास्वादितसौकुमार्यम् राधास्तनाभोगरसज्ञम् ओजः॥ ३-२४

वयम् एते विश्वसिमः करुणाकरमूर्तिकिंवदन्त्यङ्गे।
अपि च विभो तव ललिते चपलतरा मतिर् इयम् बाल्ये॥ ३-२५

वत्सपालचरः कोऽपि वत्सः श्रीवत्सलाञ्चनः।
उत्सवाय कदा भावीत्युत्सुके मम लोचने॥ ३-२६

मधुरिमभरिते मनोऽभिरामे मृदुलतरस्मितमुद्रिताननेन्दौ।
त्रिभुवननयनैकलोभनीये महसि वयम् व्रजभाजि लालसाः स्मः॥ ३-२७

मुखारविन्दे मकरन्दबिन्दु निष्यन्दलीलामुरलीनिनादे।
व्रजाङ्गनापाङ्गतरङ्गभृङ्ग सङ्ग्रामभूमौ तव लालसाः स्मः॥ ३-२८

आत्मारायतलोचनांशुलहरीलीलासुधाप्यायितै
र्गीताम्रेडितदिव्यकेलिभरितैः स्फीतम् वज्रस्त्रीजनैः।
स्वेदाम्भःकणभूषितेन किम् अपि स्मेरेण वक्त्रेन्दुना
पादाम्भोजमृदुप्रचारसुभगम् पश्यामि दृश्यम् महः॥ ३-२९

पाणौ वेणुः प्रकृतिसुकुमाराकृतौ बाल्यलक्ष्मीः
पार्श्वे बालाः प्रणयसरसालोकितापाङ्गलीलाः।
मौलौ बर्हम् मधुरवदनाम्भोरुहे मौग्ध्यमुद्रे
त्यार्द्राकारम् किम् अपि कितवम् ज्योतिरन्वेषयामः॥ ३-३०

आरूढवेणुतरुणाधरविभ्रमेण माधुर्यशालिवदनाम्बुजम् उद्वहन्ती।
आलोक्यताम् किम् अनया वनदेवता वः कैशोरके वयसि कापि च कान्तियष्टिः॥ ३-३१

अनन्यसाधारणकान्तिकान्त माक्रान्तगोपीनयनारविन्दम्।
पुंसः पुराणस्य नवम् विलासम् पुण्येन पूर्णेन विलोकयिष्ये॥ ३-३२

साष्टाङ्गपातम् अभिवन्द्य समस्तभावैः सर्वान् सुरेन्द्रनिकरान् इदम् एव याचे।
मन्दस्मितार्द्रमधुराननचन्द्रबिम्बे नन्दस्य पुण्यनिचये मम भक्तिरस्तु॥ ३-३३

एषु प्रवाहेषु स एव मन्ये क्षणोऽपि गण्यः पुरुषायुषेषु।
आस्वाद्यते यत्र कयापि भक्त्या नीलस्य बालस्य निजम् चरित्रम्॥ ३-३४

निसर्गसरसाधरम् निजदयार्द्रदिव्येक्षणम्
मनोज्ञमुखपङ्कजम् मधुरसार्द्रमन्दस्मितम्।
रसज्ञहृदयास्पदम् रमितवल्लवीलोचनम्
पुनः पुनरुपास्महे भुवनलोभनीयम् महः॥ ३-३५

स कोऽपि बालः सरसीरुहाक्षः सा च व्रजस्त्रीजनपादधूलिः।
मुहुस्तदेतद् युगलम् मदीये मोमुह्यमानेऽपि मनस्युदेतु॥ ३-३६

मयि प्रयाणाभिमुखे च वल्लवी स्तनद्वयी दुर्ललितः स बालकः।
शनैः शनैः श्रावितवेणुनिस्वनो विलासवेषेण पुरः प्रतीयताम्॥ ३-३७

अतिभूमिम् अभूमिम् एव वा वचसाम् वासितवल्लवीस्तनम्।
मनसाम् अपरम् रसायनम् मधुराद्वैतम् उपास्महे महः॥ ३-३८

जननान्तरेऽपि जगदेकमण्डने कमनीयधाम्नि कमलायतेक्षणे।
व्रजसुन्दरीजनविलोचनामृते चपलानि सन्तु सकलेन्द्रियाणि मे॥ ३-३९

मुनिश्रेणीवन्द्यम् मदभरलसद्वल्लववधू
स्तनश्रोणीबिम्बस्तिमितनयनाम्भोजसुभगम्।
पुनः श्लाघाभूमिम् पुलकितगिराम् नैगमगिराम्
घनश्यामम् वन्दे किम् अपि कमनीयाकृतिमहः॥ ३-४०

अनुचुम्बताम् अविचलेन चेतसा मनुजाकृतेर्मधुरिमश्रियम् विभोः।
अयि देव कृष्ण दयितेति जल्पताम् अपि नो भवेयुरपि नाम तादृशाः॥ ३-४१

किशोरवेषेण कृशोदरीदृशाम् विशेषदृश्येन विशाललोचनम्।
यशोदया लब्धयशो नवाम्बुधे र्निशामये नीलनिशाकरम् कदा॥ ३-४२

प्रकृतिरवतु नो विलासलक्ष्म्याः प्रकृतिजडम् प्रणतापराधवीथ्याम्।
सुकृतिकृतपदम् किशोरभावे सुकृतिमनः प्रणिधानपात्रम् ओजः॥ ३-४३

अपहसितसुधामदावलेपै रतिसुमनोहरमार्द्रमन्दहासैः।
व्रजयुवतिविलोचनावलेह्यम् रमयतु धाम रमावरोधनम् नः॥ ३-४४

अङ्कुरितस्मेरदशाविशेषै रश्रान्तहर्षामृतवर्षम् अक्ष्णाम्।
संक्रीडताम् चेतसि गोपकन्या घनस्तनस्वस्त्ययनम् महो नः॥ ३-४५

मृगमदपङ्कसङ्करविशेषितवन्यमहा
गिरितटगण्डगैरिकघनद्रवविद्रुमितम्।
अजितभुजान्तरम् भजत हे बत गोपवधू
स्तनकलशस्थलीघुसृणमर्दनकर्दमितम्॥ ३-४६

आमूलपल्लवितलीलम् अपाङ्गजालै रासिङ्चतीभुवनम् आदृतगोपवेषा।
बालाकृतिर्मृदुलमुग्धमुखेन्दुबिम्बा माधुर्यसिद्धिरवतान्मधुविद्विषो नः॥ ३-४७

विरणन्मणिनूपुरम् व्रजे चरणाम्भोजम् उपास्वशार्ङ्गिनः।
सरसे सरसि श्रियान्वितम् कमलम् वा कलहंसनादितम्॥ ३-४८

शरणमशरणानाम् शारदाम्भोजनेत्रम् निरवधिमधुरिम्णा नीलवेषेण रम्यम्।
स्मरशरपरतन्त्रस्मेरनेत्राम्बुजाभि र्व्रजयुवतिभिरव्याद्ब्रह्मसंवेष्टितम् नः॥ ३-४९

सुव्यक्तकान्तिभरसौरभदिव्यगात्र मव्यक्तयौवनपरीतकिशोरभावम्।
गव्यानुपालनविधौ अनुशिष्टम् अव्या दव्याजरम्यम् अखिलेश्वरवैभवम् नः॥ ३-५०

अनुगतममरीणाम् अम्बरालम्बिनीनाम्
नयनमधुरिमश्रीनर्मनिर्माणसीम्नाम्।
व्रजयुवतिविलासव्यापृतापाङ्गम् अव्यात्
त्रिभुवनसुकुमारम् देवकैशोरकम् नः॥ ३-५१ 

अनुगतममरीणाम् अम्बरालम्बिनीनाम्
नयनमधुरिमश्रीनर्मनिर्माणसीम्नाम्।
व्रजयुवतिविलासव्यापृतापाङ्गम् अव्यात्
त्रिभुवनसुकुमारम् देवकैशोरकम् नः॥ ३-५१

दिष्ट्या बृन्दावनमृगदृशाम् विप्रयोगाकुलानाम्
प्रत्यासन्नम् प्रणयचपलापाङ्गवीचीतरङ्गैः।
लक्ष्मीलीलाकुवलयदलश्यामलम् धाम कामान्
पुष्णीयान्नः पुलकमुकुलाभोगभूषाविशेषम्॥ ३-५३

जयति गुहशिखीन्द्रपिङ्चमौलिः सुरगिरिगैरिककल्पिताङ्गरागः।
सुरयुवतिविकीर्णसुनवर्ष स्नपितविभूषितकुन्तलः कुमारः॥ ३-५४

मधुरमन्दशुचिस्मितमञ्जुलम् वदनपङ्कजम् अङ्गजवेल्लितम्।
विजयताम् व्रजबालवधूजन स्तनतटीविलुठन्नयनम् विभोः॥ ३-५५

अलसविलसमुग्धस्निग्धस्मितम् व्रजसुन्दरी
मदनकदनस्विन्नम् धन्यम् महद्वदनाम्बुजम्।
तरुणम् अरुणज्योत्स्नाकार्त्स्न्यस्मितस्नपिताधरम्
जयति विजयश्रेणीम् एणीदृशाम् मदयन् महः॥ ३-५६

राधाकेलिकटाक्षवीक्षितमहावक्षःस्थलीमण्डना
जीयासुः पुलकाङ्कुरास्त्रिभुवनस्वादीयसस्तेजसः।
क्रीडान्तप्रतिसुप्तदुग्धतनयामुग्धावबोधक्षण
त्रासारूढधृढोपगूहनघनास्साम्राज्यसान्द्रश्रियः॥ ३-५७

स्मितस्नुतसुधाधरा मदशिखण्डिबर्हाङ्किता
विशालनयनाम्बुजा व्रजविलासिनीवासिताः।
मनोज्ञमुखपङ्कजा मधुरवेणुनादद्रवा
जयन्तिमम चेतसस्ः चिरमुपासितावासनाः॥ ३-५८

जीयादसौ शिखिशिखण्डकृतावतंसा
सांसिद्धिकी सरसकान्तिसुधासमृद्धिः।
यद्बिन्दुलेशकणिकापरिमाणभाग्यः
सौभाग्यसीमपदम् अङ्चति पङ्चबाणः॥ ३-५९

आयामेन दृशोर्विशालतरयोर् अक्षय्यम् आर्द्रस्मित
च्छायोद्धर्षितशारदेन्दुललितम् चापल्यमात्रम् शिशोः।
आयासान् अपरान् विधूय रसिकैरास्वाद्यमानम् मुहु
र्जीयाद् उन्मदवल्लवीकुचभराधारम् किशोरम् महः॥ ३-६०

स्कन्धावारसदो व्रजः कतिपये गोपाः सहायादयः
स्कन्धालम्बिनि वत्सदाम्नि धनदा गोपाङ्गनाः स्वाङ्गनाः।
शृङ्गारागिरिगैरिकम् शिव शिव श्रीमन्ति बर्हाणि वा
शृङ्गग्राहिकया तथापि तदिदम् प्राहुस्त्रिलोकेश्वरम्॥ ३-६१

श्रीमद्बर्हिशिखण्डमण्डनजुषे श्यामाभिरामत्विषे
लावण्यैकरसावसिक्तवपुषे लक्ष्मीसरः प्रावृषे।
लीलाकृष्टरसज्ञधर्ममनसे लीलामृतस्रोतसे
के वा न स्पृहयन्ति हन्त महसे गोपीजनप्रेयसे॥ ३-६२

आपाटलाधरम् अधीरविलोलनेत्र मामोदनिर्भरितमद्भुतकान्तिपूरम्।
आविःस्मित अमृतमनुस्मृतिलोभनीय मामुद्रिताननम् अहो मधुरम् मुरारेः॥ ३-६३

जागृहि जागृहि चेतश्चिराय चरितार्थता भवतः।
अनुभूयताम् इदम् इदम् पुरःस्थितम् पूर्णनिर्वाणम्॥ ३-६४

चरणयोररुणम् करुणार्द्रयोः कचभरे बहुलम् विपुलम् दृशोः।
वपुषि मञ्जुलम् अञ्जनमेचके वयसि बालमहो मधुरम् महः॥ ३-६५

मालाबर्हमनोज्ञकुन्तलभराम् वन्यप्रसूनोक्षिताम्
शैलेयद्रवकॢप्तचित्रतिलकाम् शश्वन्मनोहारिणीम्।
लीलावेणुरवामृतैकरसिकाम् लावण्यलक्ष्मीमयीम्
बालाम् बालतमालनीलवपुषम् वन्दे पराम् देवताम्॥ ३-६६

गुरुमृदुपदे गूढम् गुल्फे घनम् जघनस्थले
नलिनम् उदरे दीर्घम् बाह्वोर्विशालम् उरःस्थले।
मधुरमधरे मुग्धवक्त्रे विलासिविलोचने
बहुकचभरे वन्यम् वेषे मनोज्ञम् अहो महः॥ ३-६७

जिहानम् जिहानम् सुजानेन मौग्ध्यम् दुहानम् दुहानम् सुधाम् वेणुनादैः।
लिहानम् लिहानम् सुदीर्घैरपाङ्गैः महानन्दसर्वस्वमेतन्नमेतम्॥ ३-६८

लसद्बर्हापीडम् ललितललितस्मेरवदनम्
भ्रमत्क्रीडापाङ्गम् प्रणतजनतानिर्वृतिपदम्।
नवाम्भोदश्यामम् निजमधुरिमामोदभरितम्
परम् देवम् वन्दे परिमिलितकैशोरकरसम्॥ ३-६९

सारस्यसामग्र्यम् इवाननेन माधुर्यचातुर्यम् इव स्मितेन।
कारुण्यतारुण्यम् इवेक्षितेन चापल्यसाफल्यम् इदम् दृशोर् मे॥ ३-७०

यत्र वा तत्र वा देव यदि विश्वसिमस्त्वयि।
निर्वाणम् अपि दुर्वारमर्वाचीनानि किम् पुनः॥ ३-७१

रागान्धगोपीजनवन्दिताभ्याम् योगीन्द्रभृङ्गेन्द्रनिषेविताभ्याम्।
आताम्रपङ्केरुहविभ्रमाभ्याम् स्वामिन् पदाभ्याम् अयम् अञ्जलिस्ते॥ ३-७२

आर्थानुलापान् व्रजसुन्दरीणा मकृत्रिमाणाम् च सरस्वतीनाम्।
आर्द्राशयेन श्रवणाङ्चलेन सम्भावयन्तम् तरुणम् गृणीमः॥ ३-७३

मनसि मम सन्निधत्ताम् मधुरमुखा मन्थरापाङ्गा।
करकलितललितवंशा कापि किशोराकृपालहरी॥ ३-७४

रक्षन्तु नः शिक्षितपाशुपाल्या बाल्यावृता बर्हिशिखावतंसाः।
प्राणप्रियाः प्रस्तुतवेणुगीताः शीतादृशोः शीतलगोपकन्याः॥ ३-७५

स्मितस्तबकिताधरम् शिशिरवेणुनादामृतम्
मुहुस्तरललोचनम् मदकटाक्षमालाकुलम्।
उरःस्थलविलीनया कमलया समालिङ्गितम्
भुवस्तलम् उपागतम् भुवनदैवतम् पातु नः॥ ३-७६

नयनाम्बुजे भजत कामदुघम् हृदयाम्बुजे किम् अपि कारुणिकम्।
चरणाम्बुजे मुनिकुलैकधनम् वदनाम्बुजे व्रजवधूविभवम्॥ ३-७७

निर्वासनम् हन्त रसान्तराणाम् , निर्वाणसाम्राज्यम् इवावतीर्णम्।
अव्याजमाधुर्यमहानिधान, मव्याद् व्रजानाम् अधिदैवतम् नः॥ ३-७८

गोपीनामभिमतगीतवेषहर्षा दापीनस्तनभरनिर्भरोपगूढम्।
केलीनामवतु रसैरुपास्यमानम् कालिन्दीपुलिनचरम् परम् महो नः॥ ३-७९

खेलताम् मनसि खेचराङ्गना माननीयमृदुवेणुनिस्वनैः।
कानने किम् अपि नः कृतास्पदम् कालमेघकलहोद्वहम् महः॥ ३-८०

एणीशाबविलोचनाभिरलसश्रोणीभरप्रौढिभि
र्वेणीभूतरसक्रमाभिर् अभितः श्रेणीकृताभिर्वृतः।
पाणी द्वौ च विनोदयन् रतिपतेस्तूणीशयैः सायकै
र्वाणीनामपदम् परम् व्रजजनक्षौणीपतिः पातु नः॥ ३-८१

कालिन्दीपुलिने तमालनिबिडच्छाये पुरःसञ्चर
त्तोये तोयजपत्रपात्रनिहितम् दध्यन्नम् अश्नाति यः।
वामे पाणितले निधाय मधुरम् वेणुम् विषाणम् कटि
प्रान्ते गाश्च विलोकयन् प्रतिकलम् तम् बालम् अलोकये॥ ३-८२

यद्गोपीवदनेन्दुमण्डनमभूत् कस्तूरिकापत्रकम्
यल्लक्ष्मीकुचशातकुम्भकलशव्याकोशम् इन्दीवरम्।
यन्निर्वाणसाधनविधौ सिद्धाञ्जनम् योगिनाम्
तन्नः श्यामलमाविरस्तु हृदये कृष्णाभिधानम् महः॥ ३-८३

फुल्लेन्दीवरकान्तिम् इन्दुवदनम् बर्हावतंसप्रियम्
श्रीवत्साङ्कम् उदारकौस्तुभधरम् पीताम्बरम् सुन्दरम्।
गोपीनाम् नयनोत्पलार्चिततनुम् गोगोपसङ्घावृतम्
गोविन्दम् कलवेणुनादननिरतम्ङ्गभूषम् भजे॥ ३-८४

यन्नाभीसरसीरुहान्तरपुटे भृङ्गायमाणो विधिर्
यद्वक्श कमलाविलाससद्नम् यच्चक्शुषीचेनिन्दिनौ।
यत्पादाब्जविनिसृता सुरनदी शभोश्शिरो भूषणम्
यन्नामस्मरणम् धुनोति दुरिताम्पायात्स नः केशवः॥ ३-८५

रक्षन्तस्मानसितजलजैरञ्जलिः पादमूले
मीना नाभिसरसि हृदये मारबाणा मुरारेः।
हारा कण्ठे हरिमणिमया वक्त्रपद्मे द्विरेफाः
पिञ्चाचूडाश्चिकुरनिचये घोषयोषित्कटाक्षाः॥ ३-८६

दधिमथननिनादैस्त्यक्तनिद्रः प्रभाते
निभृतपदमगारम् वल्लवीनाम् प्रविष्टः।
मुखकमलसमीरैराशु निर्वाप्य दीपान्
कबलितनवनीतः पातु गोपालबालः॥ ३-८७

प्रातः स्मरामि दधिघोषविनीतनिद्रम्
निद्रावसानरमणीयमुखारविन्दम्।
हृद्यानवद्यवपुषम् नयनाभिराम
मुन्निद्रपद्मनयनम् नवनीतचोरम्॥ ३-८८

फुल्लहल्लकवतंसकोल्लस द्गल्लम् आगमगवीगवेषितम्।
वल्लवीचिकुरवासिताङ्गुली पल्लवम् कम् अपि वल्लवम् भजे॥ ३-८९

स्तेयम् हरेर्हरति यन्नवनीतचौर्यम्
जारत्वमस्य गुरुतल्पकृतापराधम्।
हत्याम् दशाननहतिर्मधुपानदोषम्
यत्पूतनास्तनपयः स पुनातु कृष्णः॥ ३-९०

मारमारममदीयमानसेमाधवैकनिलये यदृच्छया।
श्रीरमापतिरिहागमेदसौ कस्सहेतनिजवेश्मलङ्घनम्॥ ३-९१

आकुङ्चितम् जानु करम् च वामम् न्यस्यक्षितौ दक्षिणहस्तपद्मे।
आलोकयन्तम् नवनीतखण्डम् बालम् भजे कृष्णम् उपानताङ्गम्॥ ३-९२

जानुभ्याम् अभिधावन्तम् पाणिभ्याम् अतिसुन्दरम्।
सुकुण्डलालकम् बालम् गोपालम् चिन्तयाम्युषः॥ ३-९३

विहाय कोदण्डशरौ मुहूर्तम् गृहाण पाण्योर्मणिचारुवेणुम्।
मायूरबर्हम् च निजोत्तमाङ्गे सीतापते त्वाम् प्रणमामि पश्चात्॥ ३-९४

अयम् क्षीराम्भोधेः पतिरिति गवाम् पालक इति
श्रितोऽस्माभिः क्षीरोपनयनधिया गोपतनयः।
अनेन प्रत्यूहो व्यरचि सततम् येन जननी
स्तनादपि अस्माकम् सकृद् अपि पयो दुर्लभम् अभूत्॥ ३-९५

हस्तमुक्षिप्य यातोऽसि बलात्कृष्ण किमद्भुतम्।
हृदयाद्यदिनिर्यासि पौरुषम् गणयामि ते॥ ३-९६

तमसि रविर् इवोद्यन्मज्जताम् अम्बुराशौ
प्लव इव तृषितानाम् स्वादुवर्षीव मेघः।
निधिरिव विधनानाम् दीर्घतीव्रामयानाम्
भिषगिव कुशलम् नो दातुम् आयातु शौरिः॥ ३-९७

कोदण्डम् मसृणम् सुगन्धिविशिखम् चक्राब्जपाशाङ्कुशम्
हैमीम्वेणुलताम् करैश्च दधतम् सिन्दूरपुञ्जारुणम्।
कन्दर्पाधिकसुन्दरम् स्मितमुखम् गोपाङ्गनावेष्टितम्
गोपालम् मदनाधिपम् तम् अभजम् त्रैलोक्यरक्षामणिम्॥ ३-९८

सायम्काले वनान्ते कुसुमितसमये सैकते चन्द्रिकायाम्
त्रैलोक्याकर्षणाङ्गम् सुरनरगणिकामोहनापाङ्गमूर्तिम्।
सेव्यम् शृङ्गारभावैर्नवरसभरितैर्गोपकन्यासहस्रै
र्वन्देऽहम् रासकेलीरतमतिसुभगम् वश्यगोपालकृष्णम्॥ ३-९९

कदम्बमूले क्रीडन्तम् बृन्दावननिव्शितम्।
पद्मासनस्थितम् वन्दे वेणुम्गायन्तमच्युतम्॥ ३-१००

बालम् नीलाम्बुदाभम् नवमणिविलसत्किङ्किणीजालबद्ध
श्रोणीजङ्घान्तयुग्मम् विपुलरुरुनखप्रोल्लसत्कण्ठभूषम्।
फुल्लाम्भोजाभवक्रम् हतशकटमरुत्पूतनाद्यम् प्रसन्नम्
गोविन्दम् नन्दितेन्द्राद्यमरवरम् अजम् पूजयेद्वासरादौ॥ ३- १०१

वन्द्यम् देवैर्मुकुन्दम् विकसितकुरुविन्दाभम् इन्दीवराक्षम्
गोगोपीबृन्दवीतम् जितरिपुनिवहम् कुन्दमन्दारहासम्।
नीलग्रीवाग्र्यपिञ्चग्रथनसुविलसत्कुन्तलम् भानुमन्तम्
देवम् पीताम्बराढ्यम् यज यज दिनशो मध्यमाह्ने रमायै॥ ३-१०२

चक्रान्तध्वस्तवैरिव्रजम् अजितम् अपास्तावनीभारम् आद्यै
रावीतम् नारदाद्यैर्मुनिभिरभिनुतम् तत्त्वनिर्णीतिहेतोः।
सायाह्ने निर्मलाङ्गम् निरुपमरुचिरम् चिन्तयेन् नीलभासम्
मन्त्री विश्वोदयस्थित्यपहरणपदम् मुक्तिदम् वासुदेवम्॥ ३-१०३

कोदण्डम् ऐक्षवम् अखण्डम् इषुम् च पौष्पम्
चक्राब्जपाशसृणिकाञ्चनवंशनालम्।
बिभ्राणम् अष्टविधबाहुभिरर्कवर्णम्
ध्यायेद्धरिम् मदनगोपविलासवेषम्॥ ३-१०४

अङ्गुल्या कः कवाटम् प्रहरति कुटिले माधवः किम् वसन्तो
नो चक्री किम् कुलालो न हि धर्णिधर्ः किम् द्विजिह्वा फणीद्रः।
नाऽहम्घोराहिमर्दी किमसि खगपति र्नो हरिः किम् क्पीन्द्रः
इत्येवम् गोपकन्या प्रतिवचन जितः पातुनश्चक्रपाणिः॥ ३-१०५

राधामोहनमन्दिरादुपगतश्चन्द्रावलीमूचिवान्
राधेक्षेममयेऽस्ति तस्य वचनम् श्रुत्वआऽह चन्द्रावली ।
कंसक्षेममये विमुग्धहृदये कंसः क्वदृष्टस्त्वया
राधा क्वेति विलज्जितो नतमुखः स्मेरो हरिः पातु नः॥ ३-१०६

या प्रीतिर्विदुरार्पिते मुररिपो कुन्त्यर्पिते यादृशी
या गोवर्धनमूर्ध्नि या च पृथुके स्तन्ये यशोदार्पिते।
भारद्वाजसमर्पिते शबरिकादत्तेऽधरे योषिताम्
या प्रीतिर्मुनिपत्नीभक्तिरचितेऽत्रापि ताम् ताम् कुरु॥ ३-१०७

क्रिष्णानुस्मरणदेव पाप स्ङ्घातपङ्जरः।
शतधा भेदमायाति गिरिर्वज्रहतो यथा ॥ ३-१०८

इति श्री लीलाशुक विरचिते श्री कृष्ण कर्णामृते तृतीयोध्यायम् – तृतीय शतकम् – समाप्तम् सर्वम् सम्पूर्णम्।

iti līlāśuka viracite śrī kṛṣṇa karṇāmṛte tṛtīyodhyāyam – tṛtīya śatakam – samāptam sarvam sampūrṇam.

www.sansthanam.com
www.sansthanam.blogspot.com
www.facebook.com/sansthanam

।। नमों नारायण ।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here