MAHAKAVI KALIDASA VIRACHITA RAGHUVANSHA MAHAKABYAM. रघुवंश महाकाव्यं अष्टदशः सर्गः।। Sansthanam.

0
110

महाकवि कालिदास कृत रघुवंश महाकाव्यं अष्टदशः सर्गः।। Sevashram, Sansthanam.

स नैषधस्यार्थपतेः सुतायाम् , उत्पादयामास निषिद्धशत्रुः।
अनूनसारम् निषधान्नगेन्द्रात् , पुत्रम् यमाहुर्निषधाख्यमेव॥ १८-१

तेनोनुवीर्येण पिता प्रजायै, कल्पिष्यमाणेन ननन्द यूना।
सुवृष्टियोगादिव जीवलोकः , सस्येन संपत्तिफलोन्मुखेन॥ १८-२

शब्दादि निर्विश्य सुखम् चिराय, तस्मिन्प्रतिष्ठापितराजशब्दः।
कौमुद्वतेयः कुमुदावदातैः, द्यामर्जिताम् कर्मभिरारुरोह॥ १८-३

पौत्रः कुशस्यापि कुशेशयाक्षः, ससागराम् सागरधीरचेताः।
एकातपत्राम् भुवमेकवीरः, पुरार्गलादीर्घभुजो बुभोज॥ १८-४

तस्यानलौजास्तनयस्तदन्ते, वंशश्रियम् प्राप नलाभिधानः।
यो नड्वलानीव गजः परेषाम् , बलान्यमृद्गान्नलिनाभवक्त्रः॥ १८-५

नभश्चरैर्गीतयशाः स लेभे, नभस्तलश्यामतनुम् तनूजम्।
ख्यातम् नभःशब्दमयेन नाम्ना, कान्तम् नभोमासमिव प्रजानाम्॥ १८-६

तस्मै विसृज्योत्तरकोसलानाम् , धर्मोत्तरस्तत्प्रभवे प्रभुत्वम्।
मृगैरजर्यम् जरसोपदिष्टम् , अदेहबन्धाय पुनर्बबन्ध॥ १८-७

तेन द्विपानामिव पुण्डरीको, राज्ञामजय्योऽजनि पुण्डरीकः।
शान्ते पितर्याहृतपुण्डरीका, यम् पुण्डरीकाक्षमिव श्रिता श्रीः॥ १८-८

स क्षेमधन्वानममोघधन्वा, पुत्रम् प्रजाक्षेमविधानदक्षम्।
क्ष्माम् लम्भयित्वा क्षमयोपपन्नम् , वने तपः क्षान्ततरश्चचार॥ १८-९

अनीकिनीनाम् समरेऽग्रयायी, तस्यापि देवप्रतिमः सुतोऽभूत्।
व्यश्रूयतानीकपदावसानम् , देवादि नाम त्रिदिवेऽपि यस्य॥ १८-१०

पिता समाराधनतत्परेण, पुत्रेण पुत्री स यथैव तेन।
पुत्रस्तथैवात्मजवत्सलेन, स तेन पित्रा पितृमान्बभूव॥ १८-११

पूर्वस्तयोरात्मसमे चिरोढाम् , आत्मोभवे वर्णचतुष्टयस्य।
धुरम् निधायैकनिधिर्गुणानाम् , जगाम यज्वा यजमानलोकम्॥ १८-१२

वशी सुतस्तस्य वशंवदत्वात् , स्वेषामिवासीद्विषतामपीष्टः।
सकृद्विविग्नानपि हि प्रयुक्तम् , माधुर्यमीष्टे हरिणान्ग्रहीतुम्॥ १८-१३

अहीनगुर्नाम स गाम् समग्राम् , अहीनबाहुद्रविणः शशास।
यो हीनसंसर्गपराङ्मुखत्वात् , युवाप्यनर्थैर्व्यसनैर्विहीनः॥ १८-१४

गुरोः स चानन्तरमन्तरज्ञ्यः , पुंसाम् पुमानाद्य इवावतीर्णः।
उपक्रमैरस्खलितैश्चतुर्भिः , चतुर्दिगीशश्चतुरो बभूव॥ १८-१५

तस्मिन्प्रयाते परलोकयात्राम् , जेतर्यरीणाम् तनयम् तदीयम्।
उच्चैःशिरस्त्वाज्जितपारियात्रम् , लक्ष्मीः सिषेवे किल पारियात्रम्॥ १८-१६

तस्याभवत्सूनुरुदारशीलः शिलः, शिलापट्टविशालवक्षाः।
जितारिपक्षोऽपि शिलीमुखैर्यः, शालीनतामव्रजदीड्यमानः॥ १८-१७

तमात्मसंपन्नमनिन्दितात्मा, कृत्वा युवानम् युवराजमेव।
सुखानि सोऽभुङ्क्त सुखोपरोधि, वृत्तम् हि राज्ञामुपरुद्धवृत्तम्॥ १८-१८

तम् रागबन्धिष्ववितृप्तमेव, भोगेषु सौभाग्यविशेषभोग्यम्।
विलासिनीनामरतिक्षमाऽपि, जरा वृथा मत्सरिणी जहार॥ १८-१९

उन्नाभ इत्युद्गतनामधेयः, तस्यायथार्थोन्नतनाभिरन्ध्रः।
सुतोऽभवत्पङ्कजनाभकल्पः, कृत्स्नस्य नाभिर्नृपमण्डलस्य॥ १८-२०

ततः परम् वज्रधरप्रभावः, तदात्मजः संयति वज्रघोषः।
बभूव वज्राकरभूषणायाः, पतिः पृथिव्याः किल वज्रणाभः॥ १८-२१

तस्मिन्गते द्याम् सुकृतोपलब्धाम् , तत्संभवम् शङ्खणमर्णवान्ता।
उत्खातशत्रुम् वसुधोपतस्थे, रत्नोपहारैरुदितैः खनिभ्यः॥ १८-२२

तस्यावसाने हरिदश्वधामा, पित्र्यम् प्रपेदे पदमश्विरूपः।
वेलातटेषूषितसैनिकाश्वम् , पुराविदो यम् व्युषिताश्वमाहुः॥ १८-२३

आराध्य विश्वेश्वरमीश्वरेण, तेन क्षितेर्विश्वसहो विजज्ञे।
पातुम् सहो विश्वसखः समग्राम् , विश्वंभरामात्मजमूर्तिरात्मा॥ १८-२४

अंशे हिरण्याक्षरिपोः स जाते, हिरण्यनाभे तनये नयज्ञः।
द्विषामसह्यः सुतराम् तरूणाम् , हिरण्यरेता इव सानिलोऽभूत्॥ १८-२५

पिता पितॄणामनृणस्तमन्ते, वयस्यनन्तानि सुखानि लिप्सुः।
राजानमाजानुविलम्बिबाहुम् , कृत्वा कृती वल्कलवान्बभूव॥ १८-२६

कौसल्य इत्त्युत्तरकोसलानाम् , पत्युः पतङ्गान्वयभूषणस्य।
तस्यौरसः सोमसुतः सुतोऽभूत् , नेत्रोत्सवः सोम इव द्वितीयः॥ १८-२७

यशोभिराब्रह्मसभम् प्रकाशः , स ब्रह्मभूयम् गतिमाजगाम।
ब्रह्मिष्ठमाधाय निजेऽधिकारे, ब्रह्मिष्ठमेव स्वतनुप्रसूतम्॥ १८-२८

तस्मिन्कुलापीडनिभे विपीडम् , सम्यङ्महीम् शासति शासनाङ्काम्।
प्रजाश्चिरम् सुप्रजसि प्रजेशे, ननन्दुरानन्दजलाविलाक्ष्यः॥ १८-२९

पात्रीकृतात्मा गुरुसेवनेन, स्पष्टाकृतिः पत्ररथेन्द्रकेतोः।
तम् पुत्रिणाम् पुष्करपत्रनेत्रः, पुत्रः समारोपयदग्रसंख्याम्॥ १८-३०

वंशस्थितिम् वंशकरेण तेन, संभाव्य भावी स सखा मघोनः।
उपस्पृशन्स्पर्शनिवृत्तलौल्यः, त्रिपुष्करेषु त्रिदशत्वमाप॥ १८-३१

तस्य प्रभानिर्जितपुष्परागम् , पौष्याम् तिथौ पुष्यमसूत पत्नी।
तस्मिन्नपुष्यन्नुदिते समग्राम् , पुष्टिम् जनाः पुष्य इव द्वितीये॥ १८-३२

महीम् महेच्छः परिकीर्य सूनौ, मनीषिणे जैमिनयेऽर्पितात्मा।
तस्मात्सयोगादधिगम्य योगम् , अजन्मनेऽकल्पत जन्मभीरुः॥ १८-३३

ततः परम् तत्प्रभवः प्रपेदे, ध्रुवोपमेयो ध्रुवसंधिरुर्वीम्।
यस्मिन्नभूज्ज्यायसि सत्यसंधे, संधिर्ध्रुवः संनमतामरीणाम्॥ १८-३४

सुते शिशावेव सुदर्शनाख्ये, दर्शात्ययेन्दुप्रियदर्शने सः।
मृगायताक्षो मृगयाविहारी, सिंहादवापद्विपदम् नृसिंहः॥ १८-३५

स्वर्गामिनस्तस्य तमैकमत्यात् , अमात्यवर्गः कुलतन्तुमेकम्।
अनाथदीनाः प्रकृतीरवेक्ष्य, साकेतनाथम् विधिवच्चकार॥ १८-३६

नवेन्दुना तन्नभसोपमेयम् , शाबैकसिंहेन च काननेन।
रघोः कुलम् कुट्मलपुष्करेण, तोयेन चाप्रौढनरेन्द्रमासीत्॥ १८-३७

लोकेन भावी पितुरेव तुल्यः , संभावितो मौलिपरिग्रहात्सः।
दृष्टो हि वृण्वन्कलभप्रमाणो, अप्याशाः पुरोवातमवाप्य मेघः॥ १८-३८

तम् राजवीथ्यामधिहस्ति यातम् , आधोरणालम्बितमग्र्यवेशम्।
षड्वर्षदेशीयमपि प्रभुत्वात् , प्रैक्षन्त पौराः पितृगौरवेण॥ १८-३९

कामम् न सोऽकल्पत पैतृकस्य, सिंहासनस्य प्रतिपूरणाय।
तेजोमहिम्ना पुनरावृतात्मा, तद्व्याप चामीकरपिञ्जरेण॥ १८-४०

तस्मादधः किंचिदिवावतीर्णौ, संस्पृशन्तौ तपनीयपीठम्।
सालक्तकौ भूपतयः प्रसिद्धैः, ववन्दिरे मौलिभिरस्य पादौ॥ १८-४१

मणौ महानील इति प्रभावात् , अल्पप्रमाणेऽपि यथा न मिथ्या।
शब्दो महाराज इति प्रतीतः, तथैव तस्मिन्युयुजेऽर्भकेऽपि॥ १८-४२

पर्यन्तसंचारितचामरस्य, कपोललोलोभयकाकपक्षात्।
तस्याननादुच्चरितो विवादः, चचाल वेलास्वपि नार्णवानाम्॥ १८-४३

निर्वृत्तजाम्बूनदपट्टशोभे, न्यस्तम् ललाटे तिलकम् दधानः।
तेनैव शून्यान्यरिसुन्दरीणाम् , मुखानि स स्मेरमुखश्चकार॥ १८-४४

शिरीषपुष्पाधिकसौकुमार्यः , खेदम् न यायादपि भूषणेन।
नितान्तगुर्वीमपि सोऽनुभावात् , धुरम् धरित्र्या बिभरांबभूव॥ १८-४५

न्यस्ताक्षरामक्षरभूमिकायाम् , कार्त्स्न्येन गृह्णाति लिपिम् न यावद्।
सर्वाणि तावच्छ्रुतवृद्धयोगात् , फलान्युपायुङ्क्त स दण्डनीतेः॥ १८-४६

उरस्यपर्याप्तनिवेशभागा, प्रौढीभविष्यन्तमुदीक्षमाणा।
संजातलज्जेव तमालपत्र, च्छायाछलेनोपजुगूह लक्ष्मीः॥ १८-४७

अनश्नुवानेन युगोपमानम् , अबद्धमौर्वीकिणलाञ्छनेन।
अस्पृष्टखड्गत्सरुणापि चासीत् , रक्षावती तस्य भुजेन भूमिः॥ १८-४८

न केवलम् गच्छति तस्य काले, ययुः शरीरावयवा विवृद्धिम्।
वंश्या गुणाः खल्वपि लोककान्ताः, प्रारम्भसूक्ष्माः प्रथिमानमापुः॥ १८-४९

स पूर्वजन्मान्तरदृष्टपाराः, स्मरन्निवाक्लेशकरो गुरूणाम्।
तिस्रस्त्रिवर्गाधिगमस्य मूलम् , जग्राह विद्याः प्रकृतीश्च पित्र्याः॥ १८-५०

व्यूह्यः स्थितः किंचिदिवोत्तरार्धम् , उन्नद्धचूडोऽञ्चितसव्यजानुः।
आकर्णमाकृष्टसबाणधन्वा, व्यरोचतास्त्रेषु विनीयमानः॥ १८-५१

अथ मधु वनितानाम् नेत्रनिर्वेशनीय, मनसिजतरुपुष्पम् रागबन्धप्रवालम्।
अकृतकविधि सर्वाङ्गीणमाकल्पजातम् , इलसितपदमाद्यम् यौवनम् स प्रपेदे॥ १८-५२

प्रतिकृतिरचनाभ्यो दूतिसंदर्शिताभ्यः , समधिकतररूपाः शुद्धसंतानकामैः।
अधिविविदुरमात्यैराहृतास्तस्य यूनः , प्रथमपरिगृहीते श्रीभुवौ राजकन्याः॥ १८-५३

इति महाकवि कालिदास कृत रघुवंश महाकाव्ये अष्टदशः सर्गः॥

iti mahākavi kālidāsa kṛta raghuvaṁśa mahākāvye aṣṭadaśaḥ sargaḥ.

www.sansthanam.com
www.sansthanam.blogspot.com
www.facebook.com/sansthanam

।। नमों नारायण ।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here