Tritiya Skandha

0
109
श्रीमद्भागवत् महापुराण ।। स्कन्ध – तृतीय ।। अध्याय – ३०.

03300010 कपिल उवाच

03300011 तस्यैतस्य जनो नूनं नायं वेदोरुविक्रमम्

03300012 काल्यमानोऽपि बलिनो वायोरिव घनावलिः

03300021 यं यमर्थमुपादत्ते दुःखेन सुखहेतवे

03300022 तं तं धुनोति भगवान्पुमान्छोचति यत्कृते

03300031 यदध्रुवस्य देहस्य सानुबन्धस्य दुर्मतिः

03300032 ध्रुवाणि मन्यते मोहाद्गृहक्षेत्रवसूनि च

03300041 जन्तुर्वै भव एतस्मिन्यां यां योनिमनुव्रजेत्

03300042 तस्यां तस्यां स लभते निर्वृतिं न विरज्यते

03300051 नरकस्थोऽपि देहं वै न पुमांस्त्यक्तुमिच्छति

03300052 नारक्यां निर्वृतौ सत्यां देवमायाविमोहितः

03300061 आत्मजायासुतागार पशुद्रविणबन्धुषु

03300062 निरूढमूलहृदय आत्मानं बहु मन्यते

03300071 सन्दह्यमानसर्वाङ्ग एषामुद्वहनाधिना

03300072 करोत्यविरतं मूढो दुरितानि दुराशयः

03300081 आक्षिप्तात्मेन्द्रियः स्त्रीणामसतीनां च मायया

03300082 रहो रचितयालापैः शिशूनां कलभाषिणाम्

03300091 गृहेषु कूटधर्मेषु दुःखतन्त्रेष्वतन्द्रितः

03300092 कुर्वन्दुःखप्रतीकारं सुखवन्मन्यते गृही

03300101 अर्थैरापादितैर्गुर्व्या हिंसयेतस्ततश्च तान्

03300102 पुष्णाति येषां पोषेण शेषभुग्यात्यधः स्वयम्

03300111 वार्तायां लुप्यमानायामारब्धायां पुनः पुनः

03300112 लोभाभिभूतो निःसत्त्वः परार्थे कुरुते स्पृहाम्

03300121 कुटुम्बभरणाकल्पो मन्दभाग्यो वृथोद्यमः

03300122 श्रिया विहीनः कृपणो ध्यायन्छ्वसिति मूढधीः

03300131 एवं स्वभरणाकल्पं तत्कलत्रादयस्तथा

03300132 नाद्रियन्ते यथा पूर्वं कीनाशा इव गोजरम्

03300141 तत्राप्यजातनिर्वेदो भ्रियमाणः स्वयम्भृतैः

03300142 जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे

03300151 आस्तेऽवमत्योपन्यस्तं गृहपाल इवाहरन्

03300152 आमयाव्यप्रदीप्ताग्निरल्पाहारोऽल्पचेष्टितः

03300161 वायुनोत्क्रमतोत्तारः कफसंरुद्धनाडिकः

03300162 कासश्वासकृतायासः कण्ठे घुरघुरायते

03300171 शयानः परिशोचद्भिः परिवीतः स्वबन्धुभिः

03300172 वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः

03300181 एवं कुटुम्बभरणे व्यापृतात्माजितेन्द्रियः

03300182 म्रियते रुदतां स्वानामुरुवेदनयास्तधीः

03300191 यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ

03300192 स दृष्ट्वा त्रस्तहृदयः शकृन्मूत्रं विमुञ्चति

03300201 यातनादेह आवृत्य पाशैर्बद्ध्वा गले बलात्

03300202 नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा

03300211 तयोर्निर्भिन्नहृदयस्तर्जनैर्जातवेपथुः

03300212 पथि श्वभिर्भक्ष्यमाण आर्तोऽघं स्वमनुस्मरन्

03300221 क्षुत्तृट्परीतोऽर्कदवानलानिलैः सन्तप्यमानः पथि तप्तवालुके

03300222 कृच्छ्रेण पृष्ठे कशया च ताडितश्चलत्यशक्तोऽपि निराश्रमोदके

03300231 तत्र तत्र पतन्छ्रान्तो मूर्च्छितः पुनरुत्थितः

03300232 पथा पापीयसा नीतस्तरसा यमसादनम्

03300241 योजनानां सहस्राणि नवतिं नव चाध्वनः

03300242 त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीतः प्राप्नोति यातनाः

03300251 आदीपनं स्वगात्राणां वेष्टयित्वोल्मुकादिभिः

03300252 आत्ममांसादनं क्वापि स्वकृत्तं परतोऽपि वा

03300261 जीवतश्चान्त्राभ्युद्धारः श्वगृध्रैर्यमसादने

03300262 सर्पवृश्चिकदंशाद्यैर्दशद्भिश्चात्मवैशसम्

03300271 कृन्तनं चावयवशो गजादिभ्यो भिदापनम्

03300272 पातनं गिरिशृङ्गेभ्यो रोधनं चाम्बुगर्तयोः

03300281 यास्तामिस्रान्धतामिस्रा रौरवाद्याश्च यातनाः

03300282 भुङ्क्ते नरो वा नारी वा मिथः सङ्गेन निर्मिताः

03300291 अत्रैव नरकः स्वर्ग इति मातः प्रचक्षते

03300292 या यातना वै नारक्यस्ता इहाप्युपलक्षिताः

03300301 एवं कुटुम्बं बिभ्राण उदरम्भर एव वा

03300302 विसृज्येहोभयं प्रेत्य भुङ्क्ते तत्फलमीदृशम्

03300311 एकः प्रपद्यते ध्वान्तं हित्वेदं स्वकलेवरम्

03300312 कुशलेतरपाथेयो भूतद्रोहेण यद्भृतम्

03300321 दैवेनासादितं तस्य शमलं निरये पुमान्

03300322 भुङ्क्ते कुटुम्बपोषस्य हृतवित्त इवातुरः

03300331 केवलेन ह्यधर्मेण कुटुम्बभरणोत्सुकः

03300332 याति जीवोऽन्धतामिस्रं चरमं तमसः पदम्

03300341 अधस्तान्नरलोकस्य यावतीर्यातनादयः

03300342 क्रमशः समनुक्रम्य पुनरत्राव्रजेच्छुचिः

Previous articleTritiya Skandha
Next articleTritiya Skandha
भागवत प्रवक्ता- स्वामी धनञ्जय जी महाराज "श्रीवैष्णव" परम्परा को परम्परागत और निःस्वार्थ भाव से निरन्तर विस्तारित करने में लगे हैं। श्रीवेंकटेश स्वामी मन्दिर, दादरा एवं नगर हवेली (यूनियन टेरेटरी) सिलवासा में स्थायी रूप से रहते हैं। वैष्णव धर्म के विस्तारार्थ "स्वामी धनञ्जय प्रपन्न रामानुज वैष्णव दास" के श्रीमुख से श्रीमद्भागवत जी की कथा का श्रवण करने हेतु संपर्क कर सकते हैं।।

LEAVE A REPLY

Please enter your comment!
Please enter your name here