श्रीमद्भागवत् महापुराण ।। स्कन्ध – तृतीय ।। अध्याय -01, 02 and 03.
श्रीशुक उवाच:-
एवमेतत्पुरा पृष्टो मैत्रेयो भगवान्किल ।।
क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ।।१।।
अर्थ:- श्रीशुकदेवजी ने कहा- परीक्षित् ! जो बात तुमने पूछी है, वही पूर्वकाल में अपने सुख-समृद्धि से पूर्ण घर को छोड़कर वन में गए हुए विदुर जी ने भगवान् मैत्रेयजी से पूछी थी ।।१।।
यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वरः ।।
पौरवेन्द्रगृहं हित्वा प्रविवेशात्मसात्कृतम् ।।२।।
अर्थ:-  जब सर्वेश्वर भगवान श्रीकृष्ण पाण्डवों के दूत बनकर गये थे, तब वे दुर्योधन के महलों को छोड़कर उन्हीं विदुर जी के यहाँ उनके घर को अपना ही घर समझकर बिना बुलाये चले गए थे ।।२।।
राजोवाच:-
कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गमः ।।
कदा वा सहसंवाद एतद्वर्णय नः प्रभो ।।३।।
अर्थ:- राजा परीक्षित् ने पूछा – प्रभो ! यह तो बतलाइए कि भगवान् मैत्रेय के साथ विदुरजी का समागम कहाँ और किस समय हुआ था ? ।।३।।
न ह्यल्पार्थोदयस्तस्य विदुरस्यामलात्मनः ।।
तस्मिन्वरीयसि प्रश्नः साधुवादोपबृंहितः ।।४।।
अर्थ:- पवित्रात्मा विदुरजी ने महात्मा मैत्रय जी से कोई साधारण प्रश्न नहीं किया होगा । क्योंकि उसे तो मैत्रेय जी जैसे साधू शिरोमणि ने अभिनन्दन पूर्वक उत्तर देकर महिमान्वित किया था ।।४।।
सूत उवाच:-
स एवमृषिवर्योऽयं पृष्टो राज्ञा परीक्षिता ।।
प्रत्याह तं सुबहुवित्प्रीतात्मा श्रूयतामिति ।।५।।
अर्थ:- सर्वज्ञ शुकदेवजी ने राजा परीक्षित् के इस प्रकार पूछने पर अति प्रशन्न होकर कहा – सुनो ।।५।।
श्रीशुक उवाच:-
यदा तु राजा स्वसुतानसाधून्पुष्णन्न धर्मेण विनष्टदृष्टिः ।।
भ्रातुर्यविष्ठस्य सुतान्विबन्धून्प्रवेश्य लाक्षाभवने ददाह ।।६।।
अर्थ:- श्रीशुकदेवजी कहने लगे – परीक्षित् ! यह उन दिनों कि बात है, जब अन्धे धृतराष्ट्र ने अन्यायपूर्वक अपने दुष्ट पुत्रों का पालन-पोषण करते हुए अपने छोटे भाई पाण्डू के अनाथ बालकों को लाक्षाभवन में भेजकर आग लगवा दी ।।६।।
यदा सभायां कुरुदेवदेव्याः केशाभिमर्शं सुतकर्म गर्ह्यम् ।।
न वारयामास नृपः स्नुषायाः स्वास्रैर्हरन्त्याः कुचकुङ्कुमानि ।।७।।
अर्थ:- जब उनकी पुत्रबधू और महाराज पाण्डू ।।
द्यूते त्वधर्मेण जितस्य साधोः सत्यावलम्बस्य वनं गतस्य
न याचतोऽदात्समयेन दायं तमोजुषाणो यदजातशत्रोः
यदा च पार्थप्रहितः सभायां जगद्गुरुर्यानि जगाद कृष्णः
न तानि पुंसाममृतायनानि राजोरु मेने क्षतपुण्यलेशः
यदोपहूतो भवनं प्रविष्टो मन्त्राय पृष्टः किल पूर्वजेन
अथाह तन्मन्त्रदृशां वरीयान्यन्मन्त्रिणो वैदुरिकं वदन्ति
अजातशत्रोः प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवागः
सहानुजो यत्र वृकोदराहिः श्वसन्रुषा यत्त्वमलं बिभेषि
पार्थांस्तु देवो भगवान्मुकुन्दो गृहीतवान्सक्षितिदेवदेवः
आस्ते स्वपुर्यां यदुदेवदेवो विनिर्जिताशेषनृदेवदेवः
स एष दोषः पुरुषद्विडास्ते गृहान्प्रविष्टो यमपत्यमत्या
पुष्णासि कृष्णाद्विमुखो गतश्रीस्त्यजाश्वशैवं कुलकौशलाय
इत्यूचिवांस्तत्र सुयोधनेन प्रवृद्धकोपस्फुरिताधरेण
असत्कृतः सत्स्पृहणीयशीलः क्षत्ता सकर्णानुजसौबलेन
क एनमत्रोपजुहाव जिह्मं दास्याः सुतं यद्बलिनैव पुष्टः
तस्मिन्प्रतीपः परकृत्य आस्ते निर्वास्यतामाशु पुराच्छ्वसानः
स्वयं धनुर्द्वारि निधाय मायां भ्रातुः पुरो मर्मसु ताडितोऽपि
स इत्थमत्युल्बणकर्णबाणैर्गतव्यथोऽयादुरु मानयानः
स निर्गतः कौरवपुण्यलब्धो गजाह्वयात्तीर्थपदः पदानि
अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यामधिष्ठितो यानि सहस्रमूर्तिः
पुरेषु पुण्योपवनाद्रिकुञ्जेष्वपङ्कतोयेषु सरित्सरःसु
अनन्तलिङ्गैः समलङ्कृतेषु चचार तीर्थायतनेष्वनन्यः
गां पर्यटन्मेध्यविविक्तवृत्तिः सदाप्लुतोऽधः शयनोऽवधूतः
अलक्षितः स्वैरवधूतवेषो व्रतानि चेरे हरितोषणानि
इत्थं व्रजन्भारतमेव वर्षं कालेन यावद्गतवान्प्रभासम्
तावच्छशास क्षितिमेक चक्राम्लेकातपत्रामजितेन पार्थः
तत्राथ शुश्राव सुहृद्विनष्टिं वनं यथा वेणुजवह्निसंश्रयम्
संस्पर्धया दग्धमथानुशोचन्सरस्वतीं प्रत्यगियाय तूष्णीम्
तस्यां त्रितस्योशनसो मनोश्च पृथोरथाग्नेरसितस्य वायोः
तीर्थं सुदासस्य गवां गुहस्य यच्छ्राद्धदेवस्य स आसिषेवे
अन्यानि चेह द्विजदेवदेवैः कृतानि नानायतनानि विष्णोः
प्रत्यङ्गमुख्याङ्कितमन्दिराणि यद्दर्शनात्कृष्णमनुस्मरन्ति
ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं सौवीरमत्स्यान्कुरुजाङ्गलांश्च
कालेन तावद्यमुनामुपेत्य तत्रोद्धवं भागवतं ददर्श
स वासुदेवानुचरं प्रशान्तं बृहस्पतेः प्राक्तनयं प्रतीतम्
आलिङ्ग्य गाढं प्रणयेन भद्रं स्वानामपृच्छद्भगवत्प्रजानाम्
कच्चित्पुराणौ पुरुषौ स्वनाभ्य पाद्मानुवृत्त्येह किलावतीर्णौ
आसात उर्व्याः कुशलं विधाय कृतक्षणौ कुशलं शूरगेहे
कच्चित्कुरूणां परमः सुहृन्नो भामः स आस्ते सुखमङ्ग शौरिः
यो वै स्वस्णां पितृवद्ददाति वरान्वदान्यो वरतर्पणेन
कच्चिद्वरूथाधिपतिर्यदूनां प्रद्युम्न आस्ते सुखमङ्ग वीरः
यं रुक्मिणी भगवतोऽभिलेभे आराध्य विप्रान्स्मरमादिसर्गे
कच्चित्सुखं सात्वतवृष्णिभोज दाशार्हकाणामधिपः स आस्ते
यमभ्यषिञ्चच्छतपत्रनेत्रो नृपासनाशां परिहृत्य दूरात्
कच्चिद्धरेः सौम्य सुतः सदृक्ष आस्तेऽग्रणी रथिनां साधु साम्बः
असूत यं जाम्बवती व्रताढ्या देवं गुहं योऽम्बिकया धृतोऽग्रे
क्षेमं स कच्चिद्युयुधान आस्ते यः फाल्गुनाल्लब्धधनूरहस्यः
लेभेऽञ्जसाधोक्षजसेवयैव गतिं तदीयां यतिभिर्दुरापाम्
कच्चिद्बुधः स्वस्त्यनमीव आस्ते श्वफल्कपुत्रो भगवत्प्रपन्नः
यः कृष्णपादाङ्कितमार्गपांसुष्वचेष्टत प्रेमविभिन्नधैर्यः
कच्चिच्छिवं देवकभोजपुत्र्या विष्णुप्रजाया इव देवमातुः
या वै स्वगर्भेण दधार देवं त्रयी यथा यज्ञवितानमर्थम्
अपिस्विदास्ते भगवान्सुखं वो यः सात्वतां कामदुघोऽनिरुद्धः
यमामनन्ति स्म हि शब्दयोनिं मनोमयं सत्त्वतुरीयतत्त्वम्
अपिस्विदन्ये च निजात्मदैवमनन्यवृत्त्या समनुव्रता ये
हृदीकसत्यात्मजचारुदेष्ण गदादयः स्वस्ति चरन्ति सौम्य
अपि स्वदोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्मः परिपाति सेतुम्
दुर्योधनोऽतप्यत यत्सभायां साम्राज्यलक्ष्म्या विजयानुवृत्त्या
किं वा कृताघेष्वघमत्यमर्षी भीमोऽहिवद्दीर्घतमं व्यमुञ्चत्
यस्याङ्घ्रिपातं रणभूर्न सेहे मार्गं गदायाश्चरतो विचित्रम्
कच्चिद्यशोधा रथयूथपानां गाण्डीवधन्वोपरतारिरास्ते
अलक्षितो यच्छरकूटगूढो मायाकिरातो गिरिशस्तुतोष
यमावुतस्वित्तनयौ पृथायाः पार्थैर्वृतौ पक्ष्मभिरक्षिणीव
रेमात उद्दाय मृधे स्वरिक्थं परात्सुपर्णाविव वज्रिवक्त्रात्
अहो पृथापि ध्रियतेऽर्भकार्थे राजर्षिवर्येण विनापि तेन
यस्त्वेकवीरोऽधिरथो विजिग्ये धनुर्द्वितीयः ककुभश्चतस्रः
सौम्यानुशोचे तमधःपतन्तं भ्रात्रे परेताय विदुद्रुहे यः
निर्यापितो येन सुहृत्स्वपुर्या अहं स्वपुत्रान्समनुव्रतेन
सोऽहं हरेर्मर्त्यविडम्बनेन दृशो नृणां चालयतो विधातुः
नान्योपलक्ष्यः पदवीं प्रसादाच्चरामि पश्यन्गतविस्मयोऽत्र
नूनं नृपाणां त्रिमदोत्पथानां महीं मुहुश्चालयतां चमूभिः
वधात्प्रपन्नार्तिजिहीर्षयेशोऽप्युपैक्षताघं भगवान्कुरूणाम्
अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुर्ग्रहणाय पुंसाम्
नन्वन्यथा कोऽर्हति देहयोगं परो गुणानामुत कर्मतन्त्रम्
तस्य प्रपन्नाखिललोकपानामवस्थितानामनुशासने स्वे
अर्थाय जातस्य यदुष्वजस्य वार्तां सखे कीर्तय तीर्थकीर्तेः
श्रीशुक उवाच
इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम्
प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात्स्मारितेश्वरः
यः पञ्चहायनो मात्रा प्रातराशाय याचितः
तन्नैच्छद्रचयन्यस्य सपर्यां बाललीलया
स कथं सेवया तस्य कालेन जरसं गतः
पृष्टो वार्तां प्रतिब्रूयाद्भर्तुः पादावनुस्मरन्
स मुहूर्तमभूत्तूष्णीं कृष्णाङ्घ्रिसुधया भृशम्
तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः
पुलकोद्भिन्नसर्वाङ्गो मुञ्चन्मीलद्दृशा शुचः
पूर्णार्थो लक्षितस्तेन स्नेहप्रसरसम्प्लुतः
शनकैर्भगवल्लोकान्नृलोकं पुनरागतः
विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन्
उद्धव उवाच
कृष्णद्युमणि निम्लोचे गीर्णेष्वजगरेण ह
किं नु नः कुशलं ब्रूयां गतश्रीषु गृहेष्वहम्
दुर्भगो बत लोकोऽयं यदवो नितरामपि
ये संवसन्तो न विदुर्हरिं मीना इवोडुपम्
इङ्गितज्ञाः पुरुप्रौढा एकारामाश्च सात्वताः
सात्वतामृषभं सर्वे भूतावासममंसत
देवस्य मायया स्पृष्टा ये चान्यदसदाश्रिताः
भ्राम्यते धीर्न तद्वाक्यैरात्मन्युप्तात्मनो हरौ
प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम्
आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम्
यन्मर्त्यलीलौपयिकं स्वयोग मायाबलं दर्शयता गृहीतम्
विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषणभूषणाङ्गम्
यद्धर्मसूनोर्बत राजसूये निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः
कार्त्स्न्येन चाद्येह गतं विधातुरर्वाक्सृतौ कौशलमित्यमन्यत
यस्यानुरागप्लुतहासरास लीलावलोकप्रतिलब्धमानाः
व्रजस्त्रियो दृग्भिरनुप्रवृत्त धियोऽवतस्थुः किल कृत्यशेषाः
स्वशान्तरूपेष्वितरैः स्वरूपैरभ्यर्द्यमानेष्वनुकम्पितात्मा
परावरेशो महदंशयुक्तो ह्यजोऽपि जातो भगवान्यथाग्निः
मां खेदयत्येतदजस्य जन्म विडम्बनं यद्वसुदेवगेहे
व्रजे च वासोऽरिभयादिव स्वयं पुराद्व्यवात्सीद्यदनन्तवीर्यः
दुनोति चेतः स्मरतो ममैतद्यदाह पादावभिवन्द्य पित्रोः
ताताम्ब कंसादुरुशङ्कितानां प्रसीदतं नोऽकृतनिष्कृतीनाम्
को वा अमुष्याङ्घ्रिसरोजरेणुं विस्मर्तुमीशीत पुमान्विजिघ्रन्
यो विस्फुरद्भ्रूविटपेन भूमेर्भारं कृतान्तेन तिरश्चकार
दृष्टा भवद्भिर्ननु राजसूये चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः
यां योगिनः संस्पृहयन्ति सम्यग्योगेन कस्तद्विरहं सहेत
तथैव चान्ये नरलोकवीरा य आहवे कृष्णमुखारविन्दम्
नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्रपूतः पदमापुरस्य
स्वयं त्वसाम्यातिशयस्त्र्यधीशः स्वाराज्यलक्ष्म्याप्तसमस्तकामः
बलिं हरद्भिश्चिरलोकपालैः किरीटकोट्येडितपादपीठः
तत्तस्य कैङ्कर्यमलं भृतान्नो विग्लापयत्यङ्ग यदुग्रसेनम्
तिष्ठन्निषण्णं परमेष्ठिधिष्ण्ये न्यबोधयद्देव निधारयेति
अहो बकी यं स्तनकालकूटं जिघांसयापाययदप्यसाध्वी
लेभे गतिं धात्र्युचितां ततोऽन्यं कं वा दयालुं शरणं व्रजेम
मन्येऽसुरान्भागवतांस्त्र्यधीशे संरम्भमार्गाभिनिविष्टचित्तान्
ये संयुगेऽचक्षत तार्क्ष्यपुत्रमंसे सुनाभायुधमापतन्तम्
वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने
चिकीर्षुर्भगवानस्याः शमजेनाभियाचितः
ततो नन्दव्रजमितः पित्रा कंसाद्विबिभ्यता
एकादश समास्तत्र गूढार्चिः सबलोऽवसत्
परीतो वत्सपैर्वत्सांश्चारयन्व्यहरद्विभुः
यमुनोपवने कूजद् द्विजसङ्कुलिताङ्घ्रिपे
कौमारीं दर्शयंश्चेष्टां प्रेक्षणीयां व्रजौकसाम्
रुदन्निव हसन्मुग्ध बालसिंहावलोकनः
स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम्
चारयन्ननुगान्गोपान्रणद्वेणुररीरमत्
प्रयुक्तान्भोजराजेन मायिनः कामरूपिणः
लीलया व्यनुदत्तांस्तान्बालः क्रीडनकानिव
विपन्नान्विषपानेन निगृह्य भुजगाधिपम्
उत्थाप्यापाययद्गावस्तत्तोयं प्रकृतिस्थितम्
अयाजयद्गोसवेन गोपराजं द्विजोत्तमैः
वित्तस्य चोरुभारस्य चिकीर्षन्सद्व्ययं विभुः
वर्षतीन्द्रे व्रजः कोपाद्भग्नमानेऽतिविह्वलः
गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता
शरच्छशिकरैर्मृष्टं मानयन्रजनीमुखम्
गायन्कलपदं रेमे स्त्रीणां मण्डलमण्डनः
उद्धव उवाच
ततः स आगत्य पुरं स्वपित्रोश्चिकीर्षया शं बलदेवसंयुतः
निपात्य तुङ्गाद्रिपुयूथनाथं हतं व्यकर्षद्व्यसुमोजसोर्व्याम्
सान्दीपनेः सकृत्प्रोक्तं ब्रह्माधीत्य सविस्तरम्
तस्मै प्रादाद्वरं पुत्रं मृतं पञ्चजनोदरात्
समाहुता भीष्मककन्यया ये श्रियः सवर्णेन बुभूषयैषाम्
गान्धर्ववृत्त्या मिषतां स्वभागं जह्रे पदं मूर्ध्नि दधत्सुपर्णः
ककुद्मिनोऽविद्धनसो दमित्वा स्वयंवरे नाग्नजितीमुवाह
तद्भग्नमानानपि गृध्यतोऽज्ञाञ्जघ्नेऽक्षतः शस्त्रभृतः स्वशस्त्रैः
प्रियं प्रभुर्ग्राम्य इव प्रियाया विधित्सुरार्च्छद्द्युतरुं यदर्थे
वज्र्याद्रवत्तं सगणो रुषान्धः क्रीडामृगो नूनमयं वधूनाम्
सुतं मृधे खं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथितं धरित्र्या
03030062  आमन्त्रितस्तत्तनयाय शेषं दत्त्वा तदन्तःपुरमाविवेश
03030071  तत्राहृतास्ता नरदेवकन्याः कुजेन दृष्ट्वा हरिमार्तबन्धुम्
03030072  उत्थाय सद्यो जगृहुः प्रहर्ष व्रीडानुरागप्रहितावलोकैः
03030081  आसां मुहूर्त एकस्मिन्नानागारेषु योषिताम्
03030082  सविधं जगृहे पाणीननुरूपः स्वमायया
03030091  तास्वपत्यान्यजनयदात्मतुल्यानि सर्वतः
03030092  एकैकस्यां दश दश प्रकृतेर्विबुभूषया
03030101  कालमागधशाल्वादीननीकै रुन्धतः पुरम्
03030102  अजीघनत्स्वयं दिव्यं स्वपुंसां तेज आदिशत्
03030111  शम्बरं द्विविदं बाणं मुरं बल्वलमेव च
03030112  अन्यांश्च दन्तवक्रादीनवधीत्कांश्च घातयत्
03030121  अथ ते भ्रातृपुत्राणां पक्षयोः पतितान्नृपान्
03030122  चचाल भूः कुरुक्षेत्रं येषामापततां बलैः
03030131  स कर्णदुःशासनसौबलानां कुमन्त्रपाकेन हतश्रियायुषम्
03030132  सुयोधनं सानुचरं शयानं भग्नोरुमूर्व्यां न ननन्द पश्यन्
03030141  कियान्भुवोऽयं क्षपितोरुभारो यद्द्रोणभीष्मार्जुनभीममूलैः
03030142  अष्टादशाक्षौहिणिको मदंशैरास्ते बलं दुर्विषहं यदूनाम्
03030151  मिथो यदैषां भविता विवादो मध्वामदाताम्रविलोचनानाम्
03030152  नैषां वधोपाय इयानतोऽन्यो मय्युद्यतेऽन्तर्दधते स्वयं स्म
03030161  एवं सञ्चिन्त्य भगवान्स्वराज्ये स्थाप्य धर्मजम्
03030162  नन्दयामास सुहृदः साधूनां वर्त्म दर्शयन्
03030171  उत्तरायां धृतः पूरोर्वंशः साध्वभिमन्युना
03030172  स वै द्रौण्यस्त्रसम्प्लुष्टः पुनर्भगवता धृतः
03030181  अयाजयद्धर्मसुतमश्वमेधैस्त्रिभिर्विभुः
03030182  सोऽपि क्ष्मामनुजै रक्षन्रेमे कृष्णमनुव्रतः
03030191  भगवानपि विश्वात्मा लोकवेदपथानुगः
03030192  कामान्सिषेवे द्वार्वत्यामसक्तः साङ्ख्यमास्थितः
03030201  स्निग्धस्मितावलोकेन वाचा पीयूषकल्पया
03030202  चरित्रेणानवद्येन श्रीनिकेतेन चात्मना
03030211  इमं लोकममुं चैव रमयन्सुतरां यदून्
03030212  रेमे क्षणदया दत्त क्षणस्त्रीक्षणसौहृदः
03030221  तस्यैवं रममाणस्य संवत्सरगणान्बहून्
03030222  गृहमेधेषु योगेषु विरागः समजायत
03030231  दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान्
03030232  को विश्रम्भेत योगेन योगेश्वरमनुव्रतः
03030241  पुर्यां कदाचित्क्रीडद्भिर्यदुभोजकुमारकैः
03030242  कोपिता मुनयः शेपुर्भगवन्मतकोविदाः
03030251  ततः कतिपयैर्मासैर्वृष्णिभोजान्धकादयः
03030252  ययुः प्रभासं संहृष्टा रथैर्देवविमोहिताः
03030261  तत्र स्नात्वा पित्न्देवानृषींश्चैव तदम्भसा
03030262  तर्पयित्वाथ विप्रेभ्यो गावो बहुगुणा ददुः
03030271  हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान्
03030272  यानं रथानिभान्कन्या धरां वृत्तिकरीमपि
03030281  अन्नं चोरुरसं तेभ्यो दत्त्वा भगवदर्पणम्
03030282  गोविप्रार्थासवः शूराः प्रणेमुर्भुवि मूर्धभिः

Leave a Reply

Your email address will not be published. Required fields are marked *