अथ श्रीकृष्ण द्वादश मञ्जरी ।। Shri Krishna Dwadasha Manjari.

0
37
अथ श्रीकृष्ण द्वादश मञ्जरी – श्री श्रीधरवेंकटेशार्येण कृता ।।


दुराशान्धो-ऽमुष्मिन्विषय-विसरावर्तजठरे
तृणच्छन्ने कूपे तृणकबललुब्धः पशुरिव ।
पतित्वा खिद्येऽसावगतिरित उद्धृत्य कलयेः
कदा मां कृष्ण त्वत्पदकमललाभेन सुखितम् ॥ १॥

कथंचि-द्यच्चित्ते कमलभव-कामान्तकमुखाः
वहन्तो मज्जन्ति स्वय-मनवधौ हर्षजलधौ ।
क्व तद्दिव्य-श्रीमच्चरणकमलं कृष्ण भवतः
क्व चाहं तत्रेहा मम शुन इवा-खण्डलपदे ॥ २॥

दुरापस्त्वं कृष्ण स्मरहर-मुखानां तदपि ते
क्षतिः का कारुण्या-दगतिरिति मां लालयसि चेत् ।
प्रपश्यन् रथ्यायां शिशु-मगति-मुद्दामरुदितं
न सम्राडप्यङ्गे दधदुरुदयस्सान्त्वयति किम् ॥ ३॥

प्रतिश्वासं नेतुं प्रयतनधुरीणः पितृपतिः
विपत्तीनां व्यक्तं विहरणमिदं तु प्रतिपदम् ।
तथा हेयव्यूहा तनुरियमिहा-थाप्य्भिरमे
हतात्मा कृष्णैतां कुमति-मपहन्या मम कदा ॥ ४॥

विधीशाराध्यस्त्वं प्रणय-विनयाभ्यां भजसि यान्
प्रियस्ते यत्सेवी विमत इतरस्तेषु तृणधीः ।
किमन्य-त्सर्वापि त्वदनभिमतैव स्थितिरहो
दुरात्मैवं ते स्यां यदुवर दयार्हाः कथमहम् ॥ ५॥

विनिन्द्यत्वे तुल्याधिक-विरहिता य खलु खलाः
तथा भूतं कृत्यं यदपि सह तैरेव वसतिः ।
तदेवानुष्ठेयं मम भवति नेहास्त्यरुचिर-
प्यहो धिङ्मां कुर्वे किमिव न दया कृष्ण मयि ते ॥ ६॥

त्वदाख्या-भिख्यान त्वदमल-गुणास्वादन भवत्-
सपर्यायासक्ता जगति कति वाऽऽनन्दजलधौ ।
न खेलन्त्येवं दुर्व्यसन-हुतभुग्गर्भ-पतित-
स्त्वहं सीदाम्येको यदुवर दयेथा मम कदा ॥ ७॥

कद वा निर्हेतून्मिषित-करुणालिङ्गितभवत्-
कटाक्षालब्धेन व्यसनगहना-न्निर्गत इतः ।
हताशेष-ग्लानिन्यमृतरस-निष्यन्दशिशिरे
सुखं पादांभोजे यदुवर कदासानि विहरन् ॥ ८॥

अनित्यत्वं जान-न्नतिदृढ-मदर्पस्सविनयः
स्वके दोषेऽभिज्ञः परजुषि तु मूढस्सकरुणः ।
सतां दासश्शान्त-स्सममति-रजस्रं तव यथा
भजेयं पादाब्जं यदुवर दयेथा मम कदा ॥ ९॥

करालं दावाग्निं कबलितवता देव भवता
परित्राता गोपाः परमकृपया किन्न हि पुरा ।
मदीयान्तर्वैरिप्रकर-दहनं किं कबलयन्
दयासिन्धो गोपीदयित वद गोपायसि न माम् ॥ १०॥

न भीरारुह्यांस नदति शमने नाप्युदयते
जुगुप्सा देहस्याशुचिनिचयभावे स्पुटतरे ।
अपि व्रीडा नोदेत्यवमतिशते सत्यनुपदं
क्व मे स्यात्तवभक्तिः कथमिव कृपा कृष्ण मयि ते ॥ ११॥

बलीयस्यत्यन्तं मदघपटली तद्यदुपते
परित्रातुं नो मां प्रभवसि तथा नो दमयितुम् ।
अलाभादर्तीनामिदमनुगुणानामदयिते
कियद्दौस्थ्यं धिङ्मां त्वयि विमतमात्मद्रुहमिमम् ॥ १२॥

॥ इति श्री श्रीधरवेङ्कटेशार्येणकृता कृष्णद्वादशमञ्जरी समाप्ता ॥

LEAVE A REPLY

Please enter your comment!
Please enter your name here